०७६ जामदग्न्यपराजयः

श्रुत्वेति । गौरवाद्यन्वितकथ इति पितुर्गौरवान्नियमितवचनः । पितृसन्निधानाद्विनीतभाषीत्यर्थः ॥ १।७६।१ ॥

श्रुतवानिति । हे भार्गव यत् क्षत्रवधादि कर्म कृतवानसि तच्छ्रुतवानस्मि । अनुरुन्ध्यामहे अनुसरामः । पितृहन्तृणां क्षत्रियाणां वधेन वैरनिर्यातनं पितुरानृण्यम् आस्थितं कृतवन्तम्, पितृभक्त्या खल्वेतत् क्षत्रियविनाशनं कृतवान् पितुरानृण्यं पुत्राणां कर्तव्यमिति भवत्कृतं क्षत्रविशसनं सहामह इत्यर्थः । क्षत्रियसाधारण्येन मदवज्ञां न सहामह इति भावः ॥ १।७६।२४ ॥

आरोप्येति । शरं सज्यं मौर्व्या सहितं चकार तस्यां समधत्तेत्यर्थः ॥ १।७६।५ ॥

ब्राह्मण इति । विश्वामित्रकृतेन विश्वामित्रार्थं च । अत्र तादर्थ्यवाची कृतशब्दः । विश्वामित्रभगिनी सत्यवती, तस्यामृचीकाज्जातो जमदग्निः, तस्य पुत्रो ऽयमिति तव विश्वामित्रसम्बन्धं दृष्ट्वेत्यर्थः । तस्मात्कारणद्वयात् ॥ १।७६।६ ॥

इमामिति । तपोबलेन समार्जितान् लोकान् । पादयोर्गतिं गतिशक्तिं वा लोकानिति सुकृतस्य फलप्रापणशक्तिं वा हनिष्यामीति भावः । यदिच्छसि उभयोर्मध्ये तद्धनिष्यामीत्यर्थः ॥ १।७६।७ ॥

न हीति । यस्माद्वैष्णवः ततो मोघो व्यर्थो न पतति लक्ष्यमभित्वा न निवर्तते ॥ १।७६।८ ॥

वरायुधधरं वैष्णवचापधरं तं श्रीरामं महदद्भुतं तत्कर्म च द्रष्टुकामः ॥ १।७६।९१० ॥

जडी कृत इति । तदा लोके जने जडीकृते स्तब्धीकृते सति, निर्वीर्यः निर्गतं वीर्यं बलं यस्य स तथोक्तः । अनेन परशुरामशरीरान्निर्गत्य वैष्णवं तेजोरामभद्रे सङ्क्रान्तमिति वेदितव्यम् । तथा च नारसिंहपुराणे “ततः परशुरामस्य देहान्निर्गत्य वैष्णवम् । पश्यतां सर्वदेवानां तेजो राममुपाविशत् ॥ " इति ॥

१।७६।१११६ ॥

अक्षय्यमिति । अस्य इतरदुरारोपणस्य धनुषः परामर्शादारोपणाद्धेतोः त्वामक्षय्यं केनापि क्षयं पराजयं नेतुमश्क्यम्, मधुहन्तारं पुरुषोत्तमं सुरोत्तमं देवदेवं जानामि निश्चिनोमि । (अक्षय्यमिति पाठः) ॥ १।७६।१७१८ ॥

नेति । यदहं पूर्वं तादृशः, त्रैलोक्यनाथेन त्वया विमुखीकृतः परिभूतः, इयं विमुखीकरणजन्या । व्रीडा लज्जा भवितुं नार्हति, स्वामिनः सकाशात् पराजयो न व्रीडामावहतीत्यर्थः ॥ १।७६।१९२३ ॥

राममिति । आत्मगतिं यथा पूर्वं विहायसा शीघ्रगमनं गन्तव्यं माहेन्द्रं वा ॥ १।७६।२४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षट्सप्ततितमः सर्गः ॥ ७६ ॥