रामेति । धनुषो भेदनं चेत्यत्र ताटकावधादि समुच्चीयते ॥ १।७५।१ ॥
अपरं श्रेष्ठम् ॥ १।७५।२७ ॥
स त्वमिति । महेन्द्रकृतकेतनः, तपश्चरणार्थमिति शेषः ॥ १।७५।८१० ॥
इमे द्वे इति । यत्त्वया भग्नं यच्च मया धृतम्, ते द्वे इत्यर्थः । सुकृते प्रयत्नेन निर्मिते ॥ १।७५।११ ॥
अतिसृष्टमिति । सुरैरतिसृष्टं विश्वकर्मनिर्मितयोरुभयोरेकं त्रिपुरं हन्तुकामाय दत्तमित्यर्थः । त्रिपुरघ्नमिति । यत्त्वया भग्नं तत् त्रिपुरघ्नमिति भावः ॥
१।७५।१२ ॥
तदिदमिति । प्रसिद्धमिदं वैष्णवम् । इदं रौद्रेण धनुषा समानसारमित्यपरं वाक्यम् । समानसारं जृम्भणात्पूर्वं समानसारं भङ्गसमये तु रौद्रं धनुर्न्यूनसारमिति भावः ॥ १।७५।१३ ॥
तदा तु देवता इति । तदा दुष्करत्रिपुरदहनानन्तरम् । बलाबलनिरीक्षया बलतारतम्यनिरीक्षेच्छया ॥ १।७५।१४ ॥
अभिप्रायं त्विति । पूर्वं विष्णुरेव शिवाद्बलवानिति श्रुतम्, इदानीं रौद्रेण धनुषा त्रिपुरदहनसमये तु युद्धोपकरणं तेजिष्ठं शरमात्रमभूत्, अतः किमुभौ तुल्यबलौ उत न्यूनाधिकबलौ वेत्येवंरूपमभिप्रायं विज्ञायेत्यर्थः । केनापि निमित्तेन विरोधं जनयामास ॥ १।७५।१५१६ ॥
तदेति । एकेनैव हुङ्कारेण शैव धनुः जृम्भितं जडीकृतम् । स्तम्भितः जडीकृतः ॥ १।७५।१७ ॥
देवैरिति । याचितौ युद्धाद्विरमतमिति याचितौ, प्रशमं युद्धोपशमं जग्मतुः ॥ १।७५।१८ ॥
जृम्भितमिति । जृम्भितं विष्णुपराक्रमैर्जडीकृतम्, धनुः शितिकण्ठं च दृष्ट्वा सकलजगद्व्यापकं विष्णुं शितिकण्ठात्पराक्रमैः ज्ञानशक्त्यादिभिश्च अधिकं सर्वोत्तमं मेनिरे । शितिकण्ठधनुषो वैष्णवं धनुश्चाधिकं मेनिरे । धनुःप्राप्तिकथनेन “दक्षयज्ञवधे पूर्वं धनुरायस्य वीर्यवान्” इत्यादिना वाक्येन दक्षयज्ञान्ते महादेवो देवानां धनुर्ददावित्युक्तत्वाद्विरोधश्च दक्षयज्ञ एवेति प्रतीयते ॥ १।७५।१९ ॥
धनू रुद्र इत्यादि । ननु पूर्वं दक्षयज्ञान्ते महादेवो देवानां धनुर्ददावित्युक्तम्, इदानीं तु महादेवो देवरातस्य हस्ते धनुर्ददावित्युच्यते । कथमेतत्सङ्गच्छते? नास्ति सङ्गतिविरोधः, देवेभ्यो धनुषि दित्सिते तदानीमेतैर्देवैस्सन्निकर्षं गत्वा स्वयं गृहीतुं भीतैरस्मदर्थे ऽस्य देवरातस्य देहीति प्रार्थितः सन् तस्य हस्ते दत्तवानिति कृत्वा सङ्गतमेतत्, एवं च सति ऽन्यासभूतं तदा न्यस्तम्ऽ इत्यस्यार्थो निष्पद्यते । भवतु नामैतत्सङ्गतम् । यदुक्तं विश्वामित्रयज्ञसंरक्षणान्ते मिथिलां जिगमिषुभिर्मुनिभिर्विश्वामित्रादिभिः ऽयज्ञे जनकराजस्य देवैर्दत्तं धनुः" इति तत्कथं सङ्गच्छते? देवरातैर्देवैर्न्यासतया स्थापितं ततः प्रभृति न्यासरूपतयैवैतस्य वंश्येषु वर्तमानं जनकेन स्वयं यज्ञे स्वत्वेन याचितं देवैस्तस्य यज्ञफलत्वेन दत्तमित्यर्थस्याविरोधनादेतदपि सुसङ्गतम् । अस्तु, अनसूयासमस्यायां सीतया यज्ञे जनकस्य वरुणेन दत्तं धनुरिति वक्ष्यते, तत्तु कथम्? तत्रापि सङ्गतिरस्त्येव, देवैश्चोदितो वरुणः स्वहस्तेन यज्ञे जनकस्य दत्तवानित्यस्यार्थस्यानवग्रहात् । तदयमत्र धनुरागतिक्रमः पूर्वं देवतास्त्रिपुरवधाय विश्वकर्मनिर्मितं धनुर्महादेवाय ददुः, तदृक्षयज्ञे विरोधे विष्णुजृम्भितं देवैः प्रार्थितो महादेवो देवरातस्य हस्ते दत्तवान्, ततः प्रभृति न्यासभावेन मैथिलेषु वर्त्तमानं तत् स्वत्वेन देवा वरुणेन यज्ञे जनकायादापयन्निति । परशुरामकार्मुकस्य वरुणहस्ते निक्षेपणं दिव्यं देवेष्वेवास्तु किं मनुष्येष्विति विशेषेण तस्य हस्ते निक्षेपणम्, स देवानामायुधानां निधायको दायकश्चेति ॥ १।७५।२० ॥
इदं च वैष्णवमिति । इदं मत्करस्थितं धनुः । वैष्णवं विष्णुसम्बन्धि ॥ १।७५।२१ ॥
वैष्णवधनुषः स्वहस्तागतिप्रकारमाह ऋचीक इत्यादि । विष्णुः शितिकण्ठपराजयानन्तरम् ऋचीके न्यासं न्यासरूपेण प्रादादित्यर्थः ॥ १।७५।२२ ॥
न्यस्तशस्त्र इत्यादि । मत्पितरि न्यस्तशस्त्रे न्यस्तधनुषि तपोबलसमन्विते सति । अर्जुनः
कार्तवीर्यः । प्राकृतां तामसीम्, देहात्मबुद्धिमित्यर्थः । देहात्मबुद्ध्युत्पत्तावेव खल्वकृत्यप्रवृत्तिः ॥ १।७५।२३२७ ॥
योजयस्वेति । यदि शक्नोषि काकुत्स्थेति । शरसन्धान इति शेषः ॥ १।७५।२८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चसप्ततितमः सर्गः ॥ ७५ ॥