०७४ परशुरामागमनम्

अथेति । तौ राजानौ दशरथजनकौ ॥ १।७४।१४ ॥

गवामिति । कम्बलानामित्यत्र शतसहस्राणीति पूर्वेण सम्बन्धः । क्षौमान् पट्टवस्त्राणि ददाविति पूर्वेणान्वयः । कोटीति भिन्नं पदम्, सङ्ख्यावाचि । नपुंसकत्वमार्षम् । कोटिक्षौमान् कोट्यम्बराणीति कोटिशब्दस्योभयत्रान्वयः ॥ १।७४।५ ॥

हस्त्यश्वरथपादातमिति । “प्राणितूर्यसेनाङ्गानाम्” इत्येकवद्भावः । दिव्यरूपम् अद्भुतरूपम् ॥ १।७४।६ ॥

हिरण्यस्येत्यादि । सुवर्णस्य शोभनवर्णस्य, अत्र षष्ठ्यन्तानां पूर्वपठितकोटिशब्देनान्वयः ॥ १।७४।७९ ॥

गच्छन्तं प्रतीति शेषः । पक्षिणां घोरवाग्व्याहरणमशुभसूचकम् । भौमा इति मृगप्रदक्षिणगमनं शुभसूचकम् ॥ १।७४।१०११ ॥

असौम्या इति । मनो मम विषीदति विरुद्धशकुनदर्शनादिति भावः ॥ १।७४।१२१३ ॥

उपस्थितमिति । मृगाः प्रशमयन्तीति पूर्वमशुभसूचकम्, अतो मृगप्रदक्षिणात्तच्छाम्यतीति भावः ॥ १।७४।१४ ॥

तेषामिति । उत्पातकथनं संवदताम् ॥ १।७४।१५ ॥

तमसेति । न प्रबभुः न प्रचकाशिरे ॥ १।७४।१६१७ ॥

तस्मिन्निति । सा चमूरिति भस्मच्छन्नेवाभवदिति शेषः ॥ १।७४।१८ ॥

भार्गवमिति । दुर्द्धर्षं परैर्दुरतिक्रमम् ॥ १।७४।१९ ॥

पृथग्जनैः पामरजनैः । प्रतिगृह्येति । राममभ्यभाषतेति इतरानगणयित्वेति भावः ॥ १।७४।२०२५ ॥

इति श्रीमहेश्वरतीर्तविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चतुस्सप्ततित्तमः सर्गः ॥ ७४ ॥