०७३ सीतारामविवाहः

समुपेयिवान्, दशरथमिति शेषः ॥ १।७३।१२ ॥

केकयाधिपतिरिति । अस्मत्पिता केकयाधीश्वरः स्नेहात्त्वां कुशलमब्रवीत् । न तु भयादिति भावः । येषामस्माकं कुशलकामोसि त्वं तेषामनामयं कुशलं विद्यत इति चाब्रवीत् ॥ १।७३।३ ॥

स्वस्रीयमिति । मम स्वस्रीयं स्वस्रुः पुत्रं भरतम् ॥ १।७३।४६ ॥

तत इति । यज्ञवाटं यज्ञवाटसमीपमुपागमत्, उत्तरत्र प्रवेशयामासेति तत्प्रवेशस्य वक्ष्यमाणत्वात् ॥ १।७३।७ ॥

युक्त इत्यादि सार्धश्लोकस्य उपागमदिति पूर्वक्रियापदेन सम्बन्धः । युक्ते योग्ये विजयाख्ये । कृतकौतुकमङ्गलः कृतविवाहसूत्रमङ्गलाचारः ॥ १।७३।८ ॥

एत्य यज्ञवाटान्तरवर्तिनं वैदेहम् ॥ १।७३।९१० ॥

दात्रिति । दातृप्रतिग्रहीतृभ्यां गुणैः परस्परानुरूपाभ्याम् । विवाह एव वैवाह्यम् । कन्याप्रदानं कृत्वा स्वधर्मं प्रतिज्ञातं धर्मं दातुरनुरूपं धर्मम् ॥ १।७३।१११६ ॥

तत इति । लोकरामस्य लोका अस्मिन् रमन्त इति लोकरामः ॥ १।७३।१७ ॥

तथेति । प्रपामध्ये मण्डपमध्ये । अलञ्चकारेति । सुवर्णपालिकाभिः मङ्गलार्थं सुवर्णरचिताभिः । छिद्रकुम्भैः करकैः । शङ्खा इव पात्राणि । लाजपूर्णैश्च पात्रीभिरित्यार्षम् ॥ १।७३।१८२१ ॥

समैः समप्रमाणैः ॥ १।७३।२२२३ ॥

इयं सीतेति । तव भुजवीर्यनिर्जिता तवाभिमुखं स्थिता इयं सीता । मम सुतेत्याभिजात्यकथनम् । सहधर्मचरीति यस्त्वयानुष्ठेयो धर्मस्सो ऽनया सह कर्तव्य इत्यर्थः । एनां प्रतीच्छ अङ्गीकुरु । पाणिं गृह्णीष्व पाणिनेति । “गृभ्णामि ते सुप्रजास्त्वाय हस्तम्” इति मन्त्रपूर्वकं पाणिं गृहाणेत्यर्थः ॥ १।७३।२४ ॥

छायेवानुगता नित्यसम्बन्धा, भवत्विति शेषः । प्राक्षिपत् । रामहस्त इति शेषः ॥ १।७३।२५२७ ॥

लक्ष्मणेति । लक्ष्मणागच्छ पाणिं गृह्णीष्वेति भरतात्पूर्वं लक्ष्मणविवाहकथनं भिन्नोदरत्वान्न विरुद्ध्यते । उद्यतां दातुं निश्चिताम् ॥ १।७३।२८३३ ॥

आत्ममनोरथः फलोन्मुखो जात इति देवदुन्दुभिनिर्घोषादिरभूदित्यर्थः ॥ १।७३।३४३७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रिसप्ततितमः सर्गः ॥ ७३ ॥