तमिति । वीरं जनकम् ॥ १।७२।१ ॥
एषां तुल्यः परस्परव्यतिरेकेणापरो नास्ति ॥ १।७२।२ ॥
सदृश इति । सीता च ऊर्मिलया सह रामलक्ष्मणयोर्दीयत इति यत् । अयं धर्मसम्बन्धः सदृशः रूपसम्पदा च सदृशः ॥ १।७२।३ ॥
वक्तव्यमिति । किञ्चिदन्यद्वक्तव्यमस्ति तच्छ्रूयताम् ॥ १।७२।४६ ॥
दशरथपुत्रेषु न कस्मिन्नपि वरगुणन्यूनतेत्याह पुत्रा इति ॥ १।७२।७ ॥
उभयोरिति । पुण्यकर्मणो भवतः कुलम्, अव्यग्रम् इक्ष्वाकुकुलं च । उभयोः सम्बन्धेन कुलद्वयमनुबध्यताम् ॥ १।७२।८१२ ॥
उत्तरे इति । फल्गुनीभ्यां फल्गुन्योः वैवाहिकं प्रशंसन्ति प्रशस्तमिति वदन्ति । यत्र फल्गुनीनक्षत्रे । भगः प्रजापतिर्देवता ॥ १।७२।१३ ॥
एवमुक्त्वेति । एवमुक्त्वा प्रत्युत्थाय आसनादुत्थाय वाक्यमब्रवीत् ॥ १।७२।१४१५ ॥
इमानीत्यादि । आसनशब्देन दशरथजनककुशध्वजानां राज्यानि लक्ष्यन्ते । भवन्तौ आसनानि आसातां परिपालयेताम् । राज्यत्रयमपि भवदधीनमित्यर्थः । दशरथराज्यं त्वया कथं नियुज्यम्? इत्यत्राह यथेति । इयं मिथिला यथा दशरथस्य तथा मम अयोध्या । यथार्हं कर्तुमर्हथ वयं सर्वे भवदधीना यथोचितं कर्तुमर्हथेत्यर्थः ॥ १।७२।१६२० ॥
स गत्वेति । काल्यं काले कर्तव्यम् ॥ १।७२।२१२२ ॥
सुवर्णेति । याः सुवर्णशृङ्गाः । सम्पन्नाः क्षीर सम्पन्नाः । कांस्यदोहनाः कांस्यमयानि दोहनपात्राणि यासां तासां गवाम् । चत्वारि शतसहस्राणि स्वरूपेण दत्त्वा गोदानमुद्दिश्य वित्तं दक्षिणात्वेन ददौ, सुबहु अन्यद्वित्तं च ॥ १।७२।२३२४ ॥
गोदानं तदाख्यं कर्मविशेषम् । “गोदानं चौलवत्कार्यं षोडशे ऽब्दे तदुच्यते । अङ्कोपवेशनं नास्ति श्मश्रूणां मुण्डनं भवेत् । स्नात्वा च वाग्यतस्तिष्ठन्नहश्शेषं नयेदथ । आदित्ये ऽस्तमिते वाचं विसृजेतान्तिके गुरोः । अहं वरं ददामीति दद्याद्गोमिथुनं ततः ॥ " इत्याश्वलायनकारिकायाम्। इदं समावर्तनपूर्वाङ्गम्। “वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा। गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया ॥
" इति याज्ञवल्क्यस्मृतेः ॥ १।७२।२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विसप्ततितमस्सर्गः ॥ ७२ ॥