०७१ जनककुलवर्णनम्

एवमिति ॥ १।७१।१ ॥

प्रदान इति । कुलजातेन सत्कुलप्रसूतेन । प्रदाने कन्याप्रदाने विषये कुलं वक्तव्यम् ॥ १।७१।२३ ॥

तस्येति । प्रथमो जनकः, तत आरभ्य जनकशब्दवाच्याः ॥ १।७१।४१३ ॥

मां त्विति । कुशध्वजं भारं भरणीयमिति यावत् । यद्वा कुशध्वजं भारं राज्यभारं च मयि समावेश्य स्थापयित्वा वनं गत इत्यन्वयः ॥ १।७१।१४ ॥

वृद्ध इति । धुरं राज्यभारम् ॥ १।७१।१५ ॥

कस्येति । तस्याप्रदानात् तस्य उभयस्य अप्रदानात् । साङ्काश्यमिति सुधन्वनगरनाम । अवरोधको ऽगमत् अवरोद्धुमागतवानित्यर्थः ॥ १।७१।१६२१ ॥

वीर्यशुल्कामिति । त्रिर्ददामि त्रिभिः करणैर्ददामीत्यर्थः ॥ १।७१।२२ ॥

रामेति । गोदानं विवाहाङ्गभूतम् । वैवाहिकं विवाहकाले कर्तव्यम् । पितृकार्यं नान्दीमुखम् ॥ १।७१।२३ ॥

मघेति । अद्य मघानक्षत्रम् आगामिनि तृतीये दिवसे । उत्तरे उत्तरफल्गुन्याख्ये नक्षत्रे । वैवाहिकं विवाहकर्म कुरु । सुखोदयं सुखोदर्कम् ॥ १।७१।२४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदिपिकाख्यायां बालकाण्डव्याख्यायां एकसप्ततितमः सर्गः ॥ ७१ ॥