तत इति । कृतकर्मा ऋषिभिः कृतप्रातःसवनाद्यनुष्ठानः ॥ १।७०।१ ॥
भ्रातेत्यादि । इक्षुमतीं नदीं पिबन् तज्जलं पिबन्नित्यर्थः । वार्याफलकपर्यन्तां दुर्गसंरक्षणार्थं परिघारूपेणावस्थितायास्तस्या नद्याः वारिणि आकीर्णाः निखाताः फलकाः शूलानि येषु ते वार्याफलकाः तादृशाः पर्यन्तदेशाः यस्यां ताम् । वार्यामलकपर्यन्तामिति क्वचित्पाठः । वार्यामलकाः
आमलकविशेषाः पर्यन्तेषु यस्यास्तां तथोक्ताम् । पुण्यसङ्काशाम्, पुण्यशब्देन तत्फलभूतः स्वर्गो लक्ष्यते, तत्सङ्काशां स्वर्गोपमामित्यर्थः । पुष्पकं पुष्पकाख्यम्, विमानमिव स्थितामिति भावः । साङ्काश्यां साङ्काश्याख्यां पुरीम् । अध्यवसत् अधिवसति ॥ १।७०।२३ ॥
तमहमिति । यतः स यज्ञगोप्ता मदीययागसंरक्षकत्वेन मतः, अतस्तं द्रष्टुमिच्छामीत्यर्थः । इमां प्रीतिं जानकीपरिणयजनिताम् । भोक्ता भोक्ष्यते ॥ १।७०।४ ॥
शासनादिति । शासनात्प्रययुः । दूता इति शेषः । विष्णुमुपेन्द्रम् ॥ १।७०।५६ ॥
सो ऽभिवाद्येति । पूर्वं शतानन्दम्, पश्चाद्राजानमभिवाद्य आसनं चाध्यरोहत ॥ १।७०।७९ ॥
औपकार्यमिति । औपकार्यामुपकारिकाम् ॥ १।७०।१०१३ ॥
विदितमिति । भगवान् वसिष्टः सर्वेषु कृत्येषु । वक्तेति । इक्ष्वाकुकुलस्य दैवतं परमगुरुरिति च विदितं प्रसिद्धम् ॥ १।७०।१४ ॥
विश्वामित्रेति । यथाक्रमं कुलमिति शेषः ॥ १।७०।१५१६ ॥
अव्यक्तेति । अव्यक्तप्रभवः अव्यक्तः प्रत्यक्षप्रमाणाद्यगोचरो विष्णुः प्रभवः कारणं यस्य स तथोक्तः ॥ १।७०।१७ ॥
विवस्वानिति । विवस्वतः पुत्रः मनुरिति स्मृतः ॥ १।७०।१८२४ ॥
यस्यैत इति । यस्य प्रतिराजानः प्रतिपक्षभूता राजानः । हैहयादयः सोमवंश्याः । शत्रवः हिंसकाः । उदपद्यन्त अजायन्त ॥ १।७०।२५।
तानिति । प्रतियुद्ध्यन् प्रतिपक्षतया युद्ध्यन् । प्रवासितः निष्कासितः राज्याद्भ्रंशितः ॥ १।७०।२६२७ ॥
द्वे इति । सगरं गरसहितं भक्ष्यं ददौ ॥ १।७०।२८ ॥
तत इति । अभिरतः सन् हिमवन्तमुपाश्रितो ऽभूदिति सम्बन्धः ॥ १।७०।२९३० ॥
तमृषिमिति । कालिन्दी कालिन्द्याख्या ऋषिमुपागम्य शरणं गत्वा अभ्यवादयत् शुश्रूषते स्म ॥ १।७०।३१ ॥
स तामिति । पुत्रजन्मनि पुत्रजन्मविषये ॥ १।७०।३२ ॥
तवेति । गरेण सपत्नीप्रयुक्तेन गरेण तस्य विपत्तिर्न भवतीति गम्यते, जातः स वंशकरो भविष्यति अतः मा शुचः ॥ १।७०।३३ ॥
च्यवनमिति । तस्मात् च्यवनप्रसादात् ॥ १।७०।३४३७ ॥
रघोरिति । प्रवृद्धः प्रवृद्धाख्यः पुरुषादकः राक्षसः वसिष्ठशापादिति भावः । ततः वसिष्ठस्य प्रतिशापप्रदानार्थमुद्धृतस्य जलस्य स्वपत्न्या मदयन्त्या अनुनयेन स्वपादयोरेव विसर्जनात् कल्माषपादश्चाभूदिति भावः ॥ १।७०।३८४१ ॥
आदीति । आदिवंशविशुद्धानाम् आदित आरभ्य विशुद्धवंशानां वीराणां सत्यवादिनामिति सम्बन्धे षष्ठी ॥ १।७०।४२४३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्ततितमः सर्गः ॥ ७० ॥