॥ १।६९।१ ॥
अद्येति । पुष्कलं श्रेष्ठम् । सुविहिताः सुरक्षिताः ॥ १।६९।२ ॥
चतुरङ्गमिति । यानयुग्यं यानमान्दोलिकादि, युग्यं वाहनादि ॥ १।६९।३६ ॥
गत्वेति । चतुरहं चतुरहस्सु ॥ १।६९।७ ॥
तत इति । राजानमासाद्य मुदितो हर्षं ययौ । विवाहः शीघ्रम्भावीति हेतोः ॥ १।६९।८ ॥
स्वागतमिति । वीर्यनिर्जितां शौर्यसम्पादिताम् ॥ १।६९।९१० ॥
दिष्ट्येति । विघ्नाः श्रेयःप्रतिरोधकाः । निर्जिताः निर्गताः ॥ १।६९।११ ॥
श्व इति । निर्वर्तयितुं विवाहनिश्चयोपयोगिप्रसङ्गमिति शेषः । यज्ञस्यान्त इति । यज्ञस्य चतुर्दिनावशिष्टस्यान्ते ऋषिसम्मतं विवाहं निर्वर्तयितुमर्हसि ॥ १।६९।१२१६ ॥
राजा चेति । निशाम्य दृष्ट्वा ॥ १।६९।१७ ॥
जनकोपीति । यज्ञस्यावशिष्टाः क्रियाः । सुताभ्यां दुहित्रोः । अङ्कुरार्पणादि क्रियाः कृत्वा ॥ १।६९।१८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकोनसप्ततितमस्सर्गः ॥ ६९ ॥