जनकेनेति । क्लान्ता वाहना येषां ते तथा ॥ १।६८।१३ ॥
मैथिलि इति । साग्निहोत्रपुरस्कृतं साग्निहोत्रं च तत्पुरस्कृतं चेति कर्मधारयः । सपुरस्सरं सपरिकरम् । अत्र वाक्ये द्वितीयजनकशब्दः विप्रकृष्टजनकशब्दाविस्मरणार्थः ॥ १।६८।४६ ॥
पूर्वमिति । वीर्यशुल्केति मम प्रतिज्ञा भवद्भिर्विदिता, राजानश्च निर्वीर्याः धनुरारोपणासमर्थाः । विमुखीकृता इति यावत् । तदपि विदितमित्यर्थः ॥ १।६८।७ ॥
सेयमिति । यदृच्छया दैवादागतैः पुत्रकैः । काकपक्षधरेणैकेनैव तव पुत्रेण श्रीरामचन्द्रेणेत्यर्थः । मम सुता निर्जिता वीर्यशुल्केन स्ववशीकृता । निर्जिता तव पुत्रकैरित्यत्र कप्प्रत्ययस्याल्पार्थे विधानात् । निर्जेतुरेकत्वादेकवचनेन भाव्यम्, रघुवरेण सहागतत्वादुपचारेण लक्ष्मणस्यापि जेतृत्वे सति द्विवचनेन भाव्यम्, प्रयुक्तं बहुवचनम् । एवं मन्यते प्रयोक्ता सर्व लोकसन्ततसङ्घुष्यमाणसौभ्रात्रातिशयश्रवणवासनाप्रत्यस्तमितभेदादेकेन कृतमपि सर्वैः कृतमितिसम्प्रदायः । यद्वा निर्जेतर्येकस्मिन् रामभद्रे बहुवचनप्रयोगस्तु इतरनृपतिदुरारोपशङ्करशरासनभङ्गाद्यमानुषतदीयपौरुषजनितबहुमानादिति द्रष्टव्यम् ॥ १।६८।८ ॥
तच्चेति । तच्च तदपि । पूर्वं दक्षाध्वरध्वंसनसमये । रुद्रेण येन साधनेन
पुरन्दरपुरस्सरसुरनिकरपलायनं कृतं तदपीत्यर्थः ॥ १।६८।९ ॥
अस्मा इति । प्रतिज्ञां प्रतिज्ञातं सीताप्रदानं कर्तुमिच्छामि तदनुज्ञातुमनुमन्तुमर्हसि ॥ १।६८।१०११ ॥
प्रीतिमिति । प्रीतिं दर्शनजनितामिति शेषः । लप्स्यस एवेति सम्बन्धः ॥ १।६८।१२१४ ॥
गुप्त इति । विदेहेषु विदेहानां निवासदेशे जनपदे ॥ १।६८।१५१८ ॥
मन्त्रिण इति । गुणैर्मन्त्रिगुणैः । समन्विताः नरेन्द्रस्य जनकस्य मन्त्रिणः परमसत्कृताः सन्तः तां रात्रिं तस्यां रात्र्यामूषुरित्यर्थः ॥ १।६८।१९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् अष्टषष्टितमः सर्गः ॥ ६८ ॥