०६७ शिवधनुर्भङ्गः

जनकस्येति । धनुर्दर्शय रामायेति आरोपयिष्यति सीतां प्रतिग्रहीष्यतीति भावः ॥ १।६७।१ ॥

सूचिवान् समीपे विद्यमानान् ॥ १।६७।२३ ॥

नृणामिति । व्यायतानाम्, दीर्घदेहानाम् । पञ्चाशच्छतानि पञ्चसहस्राणि । अष्टचक्रां रथाङ्गाष्टकयुक्ताम् । मञ्जूषां धनुःपेटिकाम् । ऊहुः आचकर्षुः । ते पञ्चसहस्रसङ्ख्याविशिष्टा अपि कथञ्चन महता प्रयत्नेन ऊहुरिति वाक्यभेदः करणीयः ॥ १।६७।४ ॥

आयसीम् अष्टलोहनिर्मिताम् । सुरोपममिति जनकविशेषणम् ॥ १।६७।५८ ॥

नैतदित्यादि । अत्र श्लोके उत्तरश्लोकोक्तान् आरोपणादीन् शब्दान् तुमुनन्तान् कृत्वा एतद्धनुः पूरयितुं कर्णान्तमाक्रष्टुम् आरोपयितुं मौर्य्या संयोजयितुम् शरेण योजयितुम्, मौर्वीमाक्रष्टुं वेपयितुं ज्यां चिक्षेपयितुं तोलयितुं भारपरीक्षार्थं कम्पयितुं देवादयो न शक्ता इति योजनीयम् ॥ १।६७।९ ॥

क्व गतिरिति । मानुषाणां च गतिः आरोपणादिषु शक्तिर्नैवेत्यर्थः ॥ १।६७।१०१२ ॥

ब्रह्मर्षेरिति । अपावृत्य विवृतां कृत्वा (ब्रह्मर्षेरिति पाठः) ॥ १।६७।१३१५ ॥

लीलयेति । लीलया अप्रयत्नेनैव ॥ १।६७।१६१७ ॥

तस्येति । निर्घातः अशनिध्वनिः ॥ १।६७।१८२१ ॥

जनकानामिति । आहरिष्यति सम्पादयिष्यति ॥ १।६७।२२२४ ॥

राजानमिति । प्रश्रितैः विनयसहितैः ॥ १।६७।२५२६ ॥

कौशिक इति । कृतशासनान् दत्तविवाहसन्देशपत्रिकान् ॥ १।६७।२७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तषष्टितमः सर्गः ॥ ६७ ॥