०६६ शिवधनुर्दर्शनम्

तत इति । कृतं कर्म येन सः ॥ १।६६।१५ ॥

एतदिति । कृतकामौ प्राप्तकामौ ॥ १।६६।६७ ॥

श्रूयतामिति । धनुर्यदर्थं यत्प्रयोजनार्थं तिष्ठति अस्य धनुषः तत् श्रूयतामित्यर्थः ॥ १।६६।८ ॥

देवरात इति । तस्य देवरातस्य । अयम् इदं धनुः ॥ १।६६।९ ॥

दक्षयज्ञेति । आयम्य आकृष्य ॥ १।६६।१० ॥

यस्मादिति । वराङ्गाणि शिरांसि ॥ १।६६।१११२ ॥

प्रीतियुक्त इत्यादि । ददौ तेषामित्यत्र धनूरत्नं कर्म । तदेतदिति । एतद्धनूरत्नम् । अस्माकं पूर्वके देवराते न्यासभूतं न्यस्तम्, देवैरिति विज्ञेयम् ॥ १।६६।१३ ॥

अथेति । क्षेत्रं यागभूमिं कृषतः कर्षति सति । लाङ्गलादुत्थिता आविर्भूता । क्षेत्रं शोधयता मया लब्धेति नाम्ना सीतेति विश्रुता । सीता लाङ्गलपद्धतिः ततः प्रादुर्भूतेति तथोच्यते ॥ १।६६।१४ ॥

वीर्यशुल्का वीर्यं धनुरारोपणरूपं शुल्कं विवाहे देयं यस्याः ॥ १।६६।१५१७ ॥

मिथिलामिति । वीर्यं धनुस्सारं जिज्ञासवः अभवन्निति शेषः ॥ १।६६।१८ ॥

तेषामिति । वीर्यं जिज्ञासमानानां ग्रहणे धारणे, तोलने तोलनं नाम भारपरीक्षार्थं मुहुर्मुहुरुत्क्षेपणम् ॥ १।६६।१९ ॥

तेषामिति । तन्निबोध तस्मान्निबोध ॥ १।६६।२० ॥

तत इति । वीर्यसन्देहं वीर्यशैथिल्यम् ॥ १।६६।२१२२ ॥

तत इति । साधनानि दुर्गरक्षणसाधनानि ॥ १।६६।२३ ॥

तत इति । वीर्यसन्दिग्धाः सन्दिग्धवीर्याः ॥ १।६६।२५२७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षट्षष्टितमः सर्गः ॥ ६६ ॥