०६५ विश्वामित्र-ब्रह्मर्षित्व-प्राप्तिः

अथेति । अथ प्रतिज्ञोत्तरम् । हैमवतीं दिशम् उत्तराम् ॥ १।६५।१ ॥

मौनमिति । वर्षसहस्रस्य वर्षसहस्रस्य सम्बन्धि, तत्साध्यमिति यावत् । मौनं मौनरूपं व्रतम् ॥ १।६५।२ ॥

पूर्ण इति । काष्ठभूतं काष्ठवदवस्थितम् । आधूतम् आकुलीकृतमपि अन्तरम् अन्तरवन्तम्, धीरमिति यावत् । अर्श आदित्वादच् प्रत्ययः । यद्वा तं प्रति क्रोधः अन्तरमवकाशं नाविशत् ॥ १।६५।३४ ॥

तस्येति । अस्मिन् काले व्रतपारणकाले ॥ १।६५।५ ॥

तस्मा इति । सिद्धं पक्वम् । निश्चितः अशङ्कितः ॥ १।६५।६ ॥

अथेति । नोच्छ्वसत् नोपाश्वसत् ॥ १।६५।७ ॥

तस्येति । येन धूमेन आदीपितमिव सन्तप्यमानमिव, सम्भ्रान्तं व्याकुलितम् ॥ १।६५।८ ॥

तत इति । तपसा तेजसा तपोरूपेणाग्निना, मन्दरश्मयः क्षीणतेजस्काः । कश्मलोपहताः मोहाक्रान्ताः ॥ १।६५।९ ॥

बहुभिरिति । कारणैर्लोभकारणैः । लोभितः क्रोधितः सन्नपि तपसाभिवर्धते अस्य सूक्ष्ममपि वृजिनं स्खलनं न दृश्यम् ॥ १।६५।१० ॥

नेति । विनाशयति विनाशयेत् ॥ १।६५।११ ॥

व्याकुला इति । नास्तिकः नास्ति परो लोक इति मन्यमानः, कार्याकार्यविवेकशून्यत्वात् न प्रतिजानीमः तत्प्रतीकारं न जानीमः ॥ १।६५।१२१३ ॥

सम्मूढमिव सम्भ्रान्तमिव स्थितम् । सम्प्रक्षुभितमानसं व्याकुलीकृतचित्तम् ॥ १।६५।१४ ॥

बुद्धिमिति । देव ब्रह्मन् नाशे त्रैलोक्यनाशने ॥ १।६५।१५ ॥

कालाग्निनेति । पूर्वं कालाग्निना त्रैलोक्यं यथा अदह्यत इदानीमनेनैव तथा त्रैलोक्यं दह्यत, धक्ष्यत इत्यर्थः । देवराज्यं चिकीर्षेतापि अतः अस्य यत् ब्रह्मर्षित्वं मतं तद्दीयतामित्यर्थः । ब्रह्मर्षे इत्यादि ॥ १।६५।१६१७ ॥

ब्राह्मण्यमिति । मां वरयन्तु स्वतः एवायान्तु ॥ १।६५।१८२० ॥

क्षत्रेति । क्षत्रवेदः अथर्वणवेदः, ब्रह्मवेदाः इतरवेदाः ॥ १।६५।२१२३ ॥

एवमिति । तपः इत्ययं शब्दः अकारान्तत्वेन पुँल्लिङ्गोप्यस्तीति कृत्वा विग्रहवांस्तपः इति पाठः ॥ १।६५।२४२९ ॥

सदस्यैरिति । सदः प्राप्य स्थितैः सदस्यैः ॥ १।६५।३० ॥

अप्रमेयमिति । अप्रमेयाः इयत्तया ज्ञातुमशक्याः ॥ १।६५।३१ ॥

तृप्तिरिति । कथानां श्रवण इति शेषः । तृप्तिः अलम्बुद्धिः ॥ १।६५।३२ ॥

स्वागतम् त्वदागमनं स्वागतं जातमित्यर्थः ॥ १।६५।३३३६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः ॥ ६५ ॥