सुरकार्यमिति । लोभनं प्रलोभनम् । कामजनितेन मोहेन आन्ध्येन समन्वितः ॥ १।६४।१२ ॥
अयमिति । उत्सृजते उत्स्रक्ष्यते ॥ १।६४।३ ॥
ततः क्रोधात् मे भयं भीतिः ॥ १।६४।४५ ॥
कोकिल इति । हृदयग्राही कोकिलः । माधवे वसन्ते सति ॥ १।६४।६ ॥
त्वमिति । रूपं सोन्दर्यम् । बहुगुणं लोकोत्तरम् । भेदयस्व प्रलोभयस्व ॥ १।६४।७८ ॥
कोकिलस्येति । वल्गु मनोहरम् ॥ १।६४।९ ॥
अथेति । तस्य कोकिलस्य शब्देन कूजितेन च रम्भाया गीतेन दर्शनेन च सन्देहम् एतत् किन्निमित्तमिति संशयं गतः ॥ १।६४।१०११ ॥
यदिति । शैली शिलारूपा दुर्भगे दुष्टप्रयत्ने ॥ १।६४।१२१३ ॥
अशक्रुवन् क्रोधं धारयितुं शमयितुमशक्तः सन्, शप्त्वा सन्तापं गतः ॥ १।६४।१४१५ ॥
वच इति । महर्षेर्वचः रम्भाशापवचः श्रुत्वा कन्दर्पः स च इन्द्रश्च निर्गतः ॥ १।६४।१६ ॥
कोपेनेति । अजितैरिन्द्रिर्यैर्हेतुभिः आत्मनः मनसः, शान्तिं दुःखोपशमनम् । न लेभे ॥ १।६४।१७१९ ॥
अहमिति । आत्मानं देहम् । तावद्विशोषयिष्यामि यावत् यावता कालेन ब्राह्मण्यं प्राप्तं भविष्यति । अनुच्छ्वसन् उच्छ्वासमकुर्वन्, शाश्वतीः समाः बहून् संवत्सरान् तिष्ठेयमिति, मनश्चिन्ता मनःसङ्कल्पो बभूवेत्यन्वयः ॥ १।६४।२० ॥
न हीति । मूर्तयः अवयवाः ॥ १।६४।२१ ॥
एवमिति । वर्षसहस्रस्य दीक्षां वर्षसहस्रानुवर्तिनीं दीक्षाम् अनुच्छ्वसनादिव्रतसङ्कल्परूपाम् ।
प्रतिज्ञां प्रतिज्ञाताम्, चकार ॥ १।६४।२२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चतुःषष्टितमः सर्गः ॥ ६४ ॥