पूर्ण इति । व्रतस्नातं व्रतान्ते स्नातम् । तपःफलचिकीर्षवः तद्दातुकामाः ॥ १।६३।१ ॥
अब्रवीदिति । ऋषिः त्वमसि, पूर्वतपसा राजर्षिरसि, इदानीमृषिरेवासीति भावः ॥ १।६३।२३ ॥
गायत्र्यास्तृतीयाक्षरं विश्वामित्र इत्यस्य श्लोकस्य प्रथमाक्षरेण वीत्यनेन सङ्गृह्णाति
विश्वामित्रो महातेजा इति ॥ १।६३।४५ ॥
तामिति । विद्युतं जलदे यथा, सरसि स्रान्ती मेनका जलदमण्डलवर्तिनी विद्युदिव स्थितेति भावः ॥ १।६३।६९ ॥
तस्यामिति । पञ्च पश्च दशेत्यर्थः ॥ १।६३।१०११ ॥
बुद्धिरिति । अहोरात्रापदेशेन अहोरात्रच्छद्मना अहोरात्रसादृश्येनेति यावत् ॥ १।६३।१२१३ ॥
विनिश्वसन्निति । वेपन्तीम् वेपमानाम् ॥ १।६३।१४१५ ॥
स इति । नैष्ठिकिं व्रतसमापनपर्यन्ताम् बुद्धिं व्यवसायात्मिकाम् ॥ १।६३।१६२२ ॥
महर्षीति । ततो ऽहं विजितेन्द्रियः यदि महर्षित्वं भवता दत्तं ततो ऽहं विजितेन्द्रियश्चास्मीत्यर्थः ॥ १।६३।२३ ॥
तमिति । न तावत्त्वं जितेन्द्रियः, विकारहेतुसन्निधाने ऽपि यावन्न विकरोषि तावन्तं कालं तव जितेन्द्रियत्वं नास्तीति भावः ॥ १।६३।२४२५ ॥
घर्मे ग्रीष्मे । आकाशसंश्रयः अनावृतदेशस्थः ॥ १।६३।२६२९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रिषष्टितमः सर्गः ॥ ६३ ॥