०६२ अम्बरीशयज्ञः

॥ १।६२।१ ॥

तस्य विश्रममाणस्य विश्राम्यतः ॥ १।६२।२ ॥

विवर्णेति । तृष्णया प्राणपरित्राणलोभेन । अङ्के समीपे ॥ १।६२।३४ ॥

त्रातेति । त्वं हि त्राता । भावनः हितप्रापकः ॥ १।६२।५ ॥

राजा चेति । राजा च यथा कृतकार्यः स्यात्, अहं च दीर्घायुर्यथा स्यां तथा कुर्वित्यर्थः ॥ १।६२।६८ ॥

यदिति । यत्कृते यस्य प्रयोजनस्य कृते, प्रयोजनं च पितृवाक्यकरणम् “जीवतोर्वाक्यकरणात्” इति स्मृतेः । मम युष्माकं च परलोकहितार्थाय परलोकहितो ऽर्थः प्रयोजनं यस्य तस्मै धर्माय । तस्य वाक्यकरणस्य अयं काल आगतः ॥ १।६२।९ ॥

अयमिति । जीवितमात्रेण जीवनप्रदानमात्रेण ॥ १।६२।१०१२ ॥

मुनेरिति । साभिमानं सगर्वम् । सलीलं सावज्ञम् ॥ १।६२।१३ ॥

कथमिति । श्वमांसमिव भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वमांसभक्षणमिव अकार्यमित्यर्थः ॥ १।६२।१४१६ ॥

श्वमांसेति । जातिषु मुष्टिकजातिषु ॥ १।६२।१७ ॥

कृत्वेति । निरामयं भयरहितम् ॥ १।६२।१८ ॥

पवित्रेति । पवित्रपाशैः दर्भरशनादिभिः । वैष्णवं विष्णुसम्बन्धिनं यूपं । यूपस्य वैष्णवत्वम् “वैष्ववो वै देवतया यूपः” इति श्रुतिप्रसिद्धम् । वाग्भिः आग्नेयीभिः ऋग्भिः अग्निमुदाहर स्तुहि ॥ १।६२।१९ ॥

इमे इति । गाथे इन्द्रोपेन्द्रप्रकाशके । सिद्धिं जीवितसिद्धिम् ॥ १।६२।२०२३ ॥

सदसीति । सदसि यज्ञसदसि । पवित्रैर्दर्भरज्जुभिः । कृतलक्षणं कृतलाञ्छनम् । तं शुनश्शेफम् । पशुं पशुसंसस्कारसंस्कृतं कृत्वा समबन्धयत् समयोजयत् ॥ १।६२।२४ ॥

स बद्ध इति । अभितुष्टाव वै सुरावित्युपदेशसमये अग्निं वाग्भिरुदाहर इमे गाथे गायेथा इति मुनिनोक्तत्वात् । वाग्भिरग्निमभिष्टूय तदनन्तरगाथाद्वयगानेन इन्द्रोपेन्द्रावभितुष्टावेति वेदितव्यम् । सहस्राक्ष इत्यनेन अग्न्युपेन्द्रयोरुपलक्षणम् ॥ १।६२।२५२६ ॥

स चेति । फलं समाप्तवान् ॥ १।६२।२७२८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥