०६१ शुनःशेफकथा

विश्वामित्र इत्यादि । तान् स्वाज्ञया यज्ञार्थमागतान् ऋषीन् प्रस्थितान् प्रेक्ष्य स्वतपोवनस्थानब्रवीदिति तच्छब्दद्वयस्य निर्वाहः ॥ १।६१।१ ॥

महानिति । महान् विघ्नः प्रवृत्तः ॥ १।६१।२ ॥

विशालायाम् असम्बाधायामिति यावत् । पुष्करेषु तीर्थेषु । महात्मनः हे महात्मानः ॥ १।६१।३५ ॥

तस्येति । विप्रः पुरोहितः ॥ १।६१।६ ॥

पशुरिति । हृतः अपहृतः, तव दुर्नयात् त्वत्प्रमादात् ॥ १।६१।७ ॥

प्रायश्चित्तमिति । एतत्पशुनाशनिमित्तं प्रायश्चित्तं महद्दुष्करम्, प्रक्रान्तं कर्म यावत्प्रवर्तते प्रवर्त्तिष्यते, तावत्ततःपूर्वमेव नष्टं वा पशुमन्विष्यानय, तत्प्रतिनिधित्वेन क्रीत्वा नरं वा पशुमानयेत्यर्थः ॥ १।६१।८ ॥

गोभिर्मूल्यभूताभिः ॥ १।६१।९१० ॥

भृगुतुङ्गे भृगुतुङ्गाख्ये पर्वते (भृगु तुङ्ग इति पाठः) ॥ १।६१।११ ॥

इदं वक्ष्यमाणं वचः अब्रवीदिति शेषः ॥ १।६१।१२ ॥

यदि विक्रीणीषे विक्रीणीथाः तर्हि कृतकृत्यो ऽस्मीति कृतार्थः स्यामित्यर्थः ॥ १।६१।१३ ॥

सर्व इति । इतः एतेषु सुतेषु मध्ये एकं सुतम् ॥ १।६१।१४ ॥

नाहमिति । ज्येष्ठं कथञ्चन महतापि मूल्येन न विक्रीणीयाम्, अनेनेतरयोरप्रतिषेधादनुमतिर्गम्यते ऽअप्रतिषिद्धमनुमतं भवतिऽ इति न्यायात् ॥ १।६१।१५२२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां एकषष्ठितमः सर्गः ॥ ६१ ॥