तपोबलहतानिति । वासिष्ठान् वसिष्ठपुत्रान् ॥ १।६०।१ ॥
अयमिति । यतः इक्ष्वाकुदायादः इक्ष्वाकुवंश्यः धर्मिष्ठो वदान्यश्च अतो यागाधिकारीति भावः ॥ १।६०।२६ ॥
समधितिष्ठत प्रारभध्वम् ॥ १।६०।७ ॥
एवमुक्त्वेत्यादि । याजकः अध्वर्युः । यथाकल्पं मुख्यकल्पानुसारेण । यथाविधि यथाशास्त्रम् ॥ १।६०।८९ ॥
तत इति । तत्र कर्मणि भागार्थं सर्वदेवताः प्रतीति शेषः ॥ १।६०।१०१२ ॥
पश्य मे तपसो वीर्यं यागस्तिष्ठत्विति भावः ॥ १।६०।१३ ॥
तपसः फलम् सुकृतम् ॥ १।६०।१४१६ ॥
नासि स्वर्गकृतालयः स्वर्गालयार्हो नासीत्यर्थः ॥ १।६०।१७१९ ॥
सृजन् दक्षिणमार्गस्थानिति । यत्र त्रिशङ्कुस्तिष्ठति तत्र स्वर्गान्तरं स्रक्ष्यामीति तात्पर्यादिति भावः ॥ १।६०।२०२१ ॥
नक्षत्रवंशं नक्षत्रचक्रम् । लोको वा स्यादनिन्द्रक इति । प्रज्ञायेति शेषः । इन्द्रश्चेन्मत्सङ्कल्पविघ्नकरः तमपि मत्तपःसामर्थ्यात्स्वर्गभ्रष्टं करोमीति भावः । दैवतानि देवगणान् ॥ १।६०।२२ ॥
तत इत्यादि । ततः इन्द्रादिसर्गोपक्रमात् । स्वर्गो ऽस्त्विति सशरीरस्यास्यैवेत्यन्वयः ॥
१।६०।२३२६ ॥
मामकानि मया सृष्टानि । सर्वशः सर्वप्रकारेण । धरिष्यन्ति स्थास्यन्ति । अनुज्ञातुम् अङ्गीकर्तुम् ॥ १।६०।२७२८ ॥
एवमित्यादि । वैश्वानरपथादुत्तरायणमार्गाद्बहिः नक्षत्राणि त्वया निर्मितानीत्यर्थः ॥ १।६०।२९३० ॥
ज्योतिष्षु प्राचीनेषु । अमरसन्निभः तेजसा अमरतुल्य इत्यर्थः ॥ १।६०।३१ ॥
नृपसत्तममनुयास्यन्ति अनुसरन्तु, स्वर्गलोकगतं यथा स्वर्गलोकगतमिव कृतार्थं स्तितमिति शेषः ॥ १।६०।३२३४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षष्टितमः सर्गः ॥ ६० ॥