०५९ वसिष्ठपुत्रशपनम्

उक्तवाक्यमिति ॥ १।५९।१३ ॥

गुरुशापकृतं गुरुशापेन कृतम् ॥ १।५९।४ ॥

हस्तप्राप्यम् अनायसलभ्यम् ॥ १।५९।५७ ॥

यदन्य इति । मद्वाक्यबलेन चोदितः आहूतः अन्योपि यः कश्चन मद्वचनमनादृतम् आदृतमादरः

तद्रहितम्, अखिलेन सर्वेणाण्युक्तम् । तत्सर्वमाख्येयम् ॥ १।५९।८१० ॥

श्रुत्वेति । सर्वेषु देशेषु स्थिता इति शेषः । द्विजातयः महोदयं महोदयाख्यं मुनिं वर्जयित्वा आयान्ति आगच्छन्ति, आगच्छन् । केचनेति शेषः ॥ १।५९।१११२ ॥

क्षत्रियो याजक इति । विप्रस्यैव याजनाधिकारत्वात्, चण्डालस्य विशेषत इति तस्य तत्रानधिकारात् । कथमिति । सुरर्षयो भोक्तार इति सुराणां देवतात्वेन भोक्तृत्वम्, ऋषीणामृत्विक्त्वेन इष्टशिष्टविभागतया भोक्तृत्वम् । विश्वामित्रेण पालिता इत्याक्षेपोक्तिः । लोकशास्त्रनिन्दितं न कर्तव्यमिति भावः ॥ १।५९।१३१४ ॥

समहोदयाः महोदयमुनिसाहिताः ॥ १।५९।१५१७ ॥

अद्य त इति । सप्तजातिशतानि सप्तजन्मशतानि । मृतपाः शवमांसभक्षकाः शवदाहका वा, मुष्टिकानाम हीनजातिविशेषाः । विकृताः विकृतवचनव्यापारादयः । विरूपाः विकृताकाराः ॥ १।५९।१८१९ ॥

महोदय इत्यादि । प्राणातिपातनिरतः प्राणानामतिपातो विनाशः तत्र निरतः । निरनुक्रोशत्वं निष्कृपत्वं वर्तयिप्यति प्राप्स्यति ॥ १।५९।२०२२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकोनषष्टितमः सर्गः ॥ ५९ ॥