तत इति । क्रोधसमान्वितमित्येतदृषिपुत्रशतविशेषणम् ॥ १।५८।१ ॥
प्रत्याख्यात इति । शाखान्तरम् अवलम्बान्तरम् ॥ १।५८।२३ ॥
अशक्यमिति चोवाच यं क्रतुमिति शेषः ॥ १।५८।४ ॥
बालिश इति । त्रैलोक्यस्यापि त्रिष्वपि लोकेषु ॥ १।५८।५८ ॥
ऋषिपुत्रा इति । घोराभिसंहितं घोराभिप्रायसंयुक्तम् ॥ १।५८।९१० ॥
परुषः रूक्षाकारः । ध्वस्तमूर्धजः खर्वमूर्धजः । चित्यं चितार्हम् । आयसानि आभरणानि यस्य ॥ १।५८।११ ॥
तमिति । त्यज्य त्यक्त्वा ॥ १।५८।१२१३ ॥
विश्वामित्र इति । विफलीकृतं वसिष्ठवासिष्ठैर्विफलीकृतमनोरथम् ॥ १।५८।१४१७ ॥
प्रत्याख्यात इति । विपर्ययः जातिभ्रंशः ॥ १।५८।१८ ॥
सशरीर इति । दर्शनं सङ्कल्पम् । मयेति । तच्च फलं क्रतुशतफलम् । नावाप्यते न भुज्यते ॥ १।५८।१९ ॥
अनृतमिति । “यज्ञो ऽनृतेन क्षरति” इति वचनात् क्रतुशतनाशकत्वेनावगतमनृतमपि मयि नास्तीति भावः । मे मया कृच्छ्रेष्वपि गतः आपद्गतो ऽपि ते पुरतः क्षत्रधर्मेण शपे ॥ १।५८।२०२२ ॥
दैवमिति । दैवं भागधेयम् । परमा गतिः प्रधानकारणम् ॥ १।५८।२३२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् अष्टपञ्चाशः सर्गः ॥ ५८ ॥