तत इति श्लोकद्वयमेकान्वयम् ॥ १।५७।१२ ॥
ऽघोरं तपस्ततापऽ इत्युक्तम्, तदेवाह फलमूलाशन इति ॥ १।५७।३५ ॥
एवमुक्त्वेति । दैवतैः सह त्रिविष्टपं स्वर्गं गत्वा तदनु स्वलोकं गतवानित्यर्थः ॥ १।५७।६ ॥
विश्वामित्र इति । समन्युः सदैन्यः ॥ १।५७।७९ ॥
एतस्मिन्निति । त्रिशङ्कुरिति विख्यातः, य इति शेषः ॥ १।५७।१० ॥
तस्येति । परमां गतिम् सशरीरस्वर्गगमनम् ॥ १।५७।१११२ ॥
प्रत्याख्यातः निराकृतः । तस्य वसिष्ठस्य ॥ १।५७।१३१४ ॥
सोभिगम्येति । महात्मानः महात्मनः ॥ १।५७।१५१९ ॥
इक्ष्वाकूणामिति । पुरोधाः वसिष्ठः ॥ १।५७।२० ॥
तस्मादिति । तस्माद्वसिष्ठादनन्तरं पश्चात् ॥ १।५७।२१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ ५७ ॥