०५६ वसिष्ठ-विश्वामित्र-सङ्घर्षः

एवमुक्त इति ॥ १।५६।१२ ॥

क्षत्रबन्धो इति । क्षत्रबन्धो क्षत्रियाधम क्षत्रिय पांसनेत्यतः परमब्रवीदित्यनुकृष्यते ॥ १।५६।३१६ ॥

त्रैलोक्यमिति । समुदीरिते प्रयुक्ते ॥ १।५६।१७१९ ॥

रोमकूपेष्विति । अग्नेरिव वसिष्ठस्य रोमकूपेषु रोमकूपेभ्यो मरीच्यो ज्वालाः निष्पेतुः निश्चक्रमुः ॥ १।५६।२०२१ ॥

तत इति । तेजो धारय । तेजसेति । तेजो ब्रह्मास्त्रतेजः, तेजसा स्वमहिम्ना धारय उपशमय ॥ १।५६।२२२४ ॥

विश्वामित्र इति । विनिकृतः परिभूतः ॥ १।५६।२५ ॥

धिग्बलमिति । क्षत्रियबलं धिक् निन्द्यमित्यर्थः । ब्रह्मतेजोबलं बलम्, प्रशस्तं बलमिति यावत् । ब्रह्मत्वकारणं ब्राह्मण्यसम्पादकम् ॥ १।५६।२६२७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदिपिकाख्यायां बालकाण्डव्याख्यायां षट्पञ्चाशः सर्गः ॥ ५६ ॥