तत इति । आकुलान् पलायमानान् । हे कामधुक् योगतः योगमहिम्ना ॥ १।५५।१३ ॥
विश्वामित्रस्य सर्वम्, तत्सैन्यम् ॥ १।५५।४ ॥
विश्वामित्रसुतानां शतम् ऋषिरेव धेनोर्बलमतो ऽयमेव नाशनीय इत्याशयेन वसिष्ठमभ्यधावत् ॥ १।५५।५ ॥
हुङ्कारेण तपोबलसम्भृतेन, क्षत्रियत्वेपि पृथिवीपतित्वाभावात्तद्वधे अल्पप्रायश्चित्तम्, आततायित्वाच्चेति भावः ॥ १।५५।६८ ॥
समुद्र इति । उपरक्तः राहुग्रस्तः ॥ १।५५।९ ॥
हतेति । निर्वेदं चतुरङ्गबले निष्फलत्वबुद्धिम् ॥ १।५५।१० ॥
सपुत्रमिति । एकमवशिष्टम् । क्षत्रधर्मेण पृथिवीं पालयेति, अन्यथा अहमिव भविष्यतीत्याशयः । राज्याय राज्यं कर्त्तुं नियुज्य ॥ १।५५।१११२ ॥
केनचिदिति । दर्शयामास, आत्मानमिति शेषः ॥ १।५५।१३१५ ॥
यदिति । अङ्गं करणम् । उपाङ्गं तदनुग्राहकम् । उपनिषत् वेदान्तः । रहस्यमुपदेशगम्यार्थः । समासान्तः ऋषिप्रयोगतो वेदितव्यः ॥ १।५५।१६१८ ॥
प्राप्येति । पूर्वमेव दर्पयुक्तः तदानीं दर्पपूर्णो ऽभवत् ॥ १।५५।१९२० ॥
तत इति । यैरस्त्रैरस्त्रतेजसा स्वकीयतेजसा च निर्दग्धं तानि मुमोचेत्यन्वयः ॥ १।५५।२१ ॥
उदीर्यमाणं प्रयुज्यमानम् ॥ १।५५।२२ ॥
वसिष्ठस्येति । भयाद्भयजनकास्त्रात्, नानादिग्भ्यः नानादिशः, व्यत्ययेन द्वितीयार्थे चतुर्थी । इरिणसन्निभम् ऊषरस्थानसन्निभम्, निस्तम्बगुल्मवदित्यर्थः ॥ १।५५।२३२४ ॥
नानादिग्भ्यः नानादिशः, व्यत्ययेन द्वितीयार्थे चतुर्थी ।
वदतो वसिष्ठस्येति भावलक्षणे षष्ठी ॥ १।५५।२५२८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥ ५५ ॥