०५४ शबलापहरणम्

कामधेनुमिति । न त्यजते नात्यजत् । अन्वकर्षत बलात्कारेण नीतवान् ॥ १।५४।१ ॥

परित्यक्तेति । राजभटैः राजभृत्यैः । ह्रियेयम् अपह्रिये ॥ १।५४।२३ ॥

किमिति । भक्ताम् अनुरक्ताम् ॥ १।५४।४५ ॥

शबलेति । क्रोशन्ती आर्तस्वरं कुर्वन्ती । अभितः अभिमुखम् ॥ १।५४।६८ ॥

नेति । मत्तः मत्सकाशात् बलान्नयत इति सम्बन्धः ॥ १।५४।९ ॥

नहीत्यादि । मह्यं मम तुल्यं बलं न, तर्हि तपोबलेन किमिति न दण्ड्यते? तत्राह राजा त्वद्य विशेषत इति । राजा तपोबलेन न दण्ड्य इति भावः । तदुक्तं किष्किन्धाकाण्डे “दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च । राजानो वानरश्रेष्ठ प्रदातारो न संशयः । तान्न हिंस्यान्न चाक्रोशेन्नाक्षेपेन्नाप्रियं वदेत् । देवा मानुषरूपेण चरन्त्येते महीतले ॥ " इति ॥

१।५४।१० ॥

इयमिति । हस्तिध्वजाः हस्तिषु स्थिताः ध्वजाः तैः समाकीर्णा ॥ १।५४।११ ॥

एवमिति । विनीतवत् विनीता ॥ १।५४।१२ ॥

नेति । क्षत्रियस्य बलं न बलम् अल्पबलमाहुः । ब्रह्मन्नित्यादि । ब्रह्मबलं क्षत्रात् क्षत्रियबलात्, बलवत्तरम् अधिकतरम् ॥ १।५४।१३ ॥

अप्रमेयमिति । तुभ्यं तव बलम् । विश्वामित्रो महावीर्योपि, त्वया त्वत्तः न बलवान् ॥ १।५४।१४ ॥

नियुङ्क्ष्वेति । ब्रह्मबलेनसम्भृताम् वर्धितप्रभावाम् ॥ १।५४।१५१७ ॥

तस्या इति । हुम्भारवोत्सृष्टाः हुम्भारवाः गवामनुकरणशब्दास्तैरुत्सृष्टाः निर्मिताः । पप्लवशकयवनादिशब्दाः म्लेच्छजातिविशेषवचनाः ॥ १।५४।१८२३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चतुःपञ्चाशः सर्गः ॥ ५४ ॥