०५३ शबला-याचना

एवमिति । यस्य यस्य यथा यथोप्सितम्, तथा तथा कामान् काङ्क्षितान् विदधे निर्ममे ॥ १।५३।१ ॥

इक्षूनिति । उच्चावचान् अनेकविधान् ॥ १।५३।२ ॥

उष्णेति । उष्णाढ्यस्य उष्णस्पर्शवतः । मृष्टान्नानि इष्टान्नानि ॥ १।५३।३ ॥

नानेति । नानाविधाः स्वादवो रुच्या रसा माधुर्यादयो येषां तेषां षाडवानां षड्रसकृतभक्ष्यविशेषाणां सम्पूर्णानि । तैः पूर्णानीत्यर्थ । गौडानि गुडकृतानि । उष्णाढ्यस्येत्यादिना गौडानि च सहस्रशः इत्यन्तस्य अभूवन्नित्यध्याहृतक्रिययान्वयः ॥ १।५३।४ ॥

सर्वमिति । पुष्टजनायुतं पुष्टजनाश्रितम् ॥ १।५३।५ ॥

विश्वामित्र इति । तुष्टः आदरेण । पुष्टः भोजनादिना ॥ १।५३।६ ॥

सामात्य इति । सामात्यः अमात्याः कर्मसहायाः । पूजितः बहूकृतः ॥ १।५३।७ ॥

पूजित इति । सुसत्कृतः आतिथ्येन सत्कृतः ॥ १।५३।८९ ॥

रत्नं हीत्यादि । यस्मादेतद्रत्नं यतः पार्थिवो रत्नहारी तस्माच्छबलां देहि । धर्मतो न्यायतः । एषा मम मदीया ॥ १।५३।१० ॥

एवमिति । परित्यागं विश्लेषं प्राप्तुं नार्हा, आत्मवतः मनस्विनः । कीर्तिरिव शबला मह्यं मम । शाश्वती नित्यसम्बन्धा ॥ १।५३।१११३ ॥

अस्यामित्यादि । हव्यं देवार्थम् । कव्यं पित्रर्थम् । प्राणयात्रा प्राणधृतिः । अग्निहोत्रं प्रतिदिनं सायम्प्रातः कर्तव्यो होमविशेषः । बलिः भूतबलिः । होमो दर्शपूर्णमासादिः, एतत्सर्वमस्यामायत्तमेतदधीनम् ॥ १।५३।१४ ॥

स्वाहाकार इत्यादि । स्वाहाकारः स्वाहेति मन्त्रः । वषट्कारः वषडिति मन्त्रः । विविधा विद्या वेदत्रयी । दधिपयःप्रभृतीनां हव्यकव्यादीनां तत्साध्यकर्मणां तद्विनियुक्तमन्त्राणां च सम्भवादेतदधीनत्वम् । अत्रार्थे न संशयः सत्येन वदामीति शेषः । बहुभिरुक्तैरनुक्तैश्च ॥ १।५३।१५१६ ॥

वसिष्ठेनेति । संरब्धतरम् अत्यन्ताभिनिवेशयुक्तम् ॥ १।५३।१७ ॥

हैरण्यकक्ष्येत्यादि । सहस्रशब्दस्य नित्यनपुंसकत्वान्न सामानाधिकरण्यविरोधः । हैरण्याः हिरण्मयाः कक्ष्याः मध्यबन्धनार्था रज्जुविशेषाः । ग्रैवेयाः ग्रीवाबन्धनरज्जवश्च येषां ते तथोक्ताः । कुञ्जराणां कुञ्जरान् ॥ १।५३।१८ ॥

हैरण्यानामिति । चतुर्युजाम् चतुर्भिरश्वैर्युक्तानाम् । अश्वानां सङ्ख्यानियमार्थं चतुर्युजामितिविशेषणम् । किङ्किणीकविभूषितानिति षष्ठ्यर्थे द्वितीया ॥ १।५३।१९ ॥

हयानामिति । देशजातानाम् देशः काम्भोजबाह्लीकादिः । कुलजातानाम् गन्धर्वकुलजातानाम् “गन्धर्वकुलजातस्त्वम्” इति पुराणवचनात् ॥ १।५३।२०२२ ॥

एवमिति । हे राजन् शबलां न दास्यामीति प्राहेत्यन्वयः ॥ १।५३।२३ ॥

एतत् शबलारूपं वस्तु ॥ १।५३।२४ ॥

आप्तदक्षिणा इत्यनेन हव्यादिवद्दक्षिणाप्येतदधीनेति सूचितम् ॥ १।५३।२५ ॥

क्रियास्तथेत्यस्यैव विवरणम् अदोमूला इति । सर्वथा दानाभावे हेतुगर्भविशेषणम् । कामदोहिनीम् इच्छाविषयदोहनशीलाम् । काव्यलिङ्गमलङ्कारः ॥ १।५३।२६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रिपञ्चाशः सर्गः ॥ ५३ ॥