०५२ वसिष्ठ-विश्वामित्र-संवादः

स इति । प्रणतः कृतप्रणामः ॥ १।५२।१ ॥

स्वागतमिति । व्यादिदेश ह आज्ञापयति स्म ॥ १।५२।२४ ॥

वनस्पतिशब्देन वृक्षमात्रम्, न तु विना पुष्पं फलवन्त एतद्विषये ऽपि कुशलं पर्यपृच्छत । सर्वत्र तत्पृष्टसर्वविषये ॥ १।५२।५ ॥

जपतां तपस्विनाम् ॥ १।५२।६ ॥

कच्चिदिति । कच्चिदित्यव्ययं कामप्रवेदनपरम्, तव कुशलं ममेप्सितमित्यमुमर्थं द्योतयति । राजवृत्तेन चतुर्विधेन । यथाहुः “न्यायेनार्जनमर्थस्य वर्धनं पालनं तथा । सत्पात्रे प्रतिपत्तिश्च राजवृत्तं चतुर्विधम्” इति । सम्भृताः तोषिताः । बले चतुरङ्गबले । कोशे अर्थसमूहे ॥ १।५२।७९ ॥

सर्वत्रेति । ऽवसिष्ठं विनयान्वितम्ऽ इत्यत्र वसिष्ठमतिशयेन वसुमन्तम्, तपोधनसमृद्धमिति यावत् । यद्वा वसिष्ठशब्दो वरिष्ठवचनः ॥ १।५२।१० ॥

कृत्वेति । कथा अन्योन्यकुशलप्रश्नोत्तरादिरूपाः परस्परं प्रीयेतां प्रीणयतः स्म ॥ १।५२।११ ॥

तत इति । प्रहसन्निव अयं महानतिथिर्लब्ध इति हर्षेण ॥ १।५२।१२ ॥

सम्प्रतीच्छ अङीगकुरु ॥ १।५२।१३ ॥

उद्यतां चिकीर्षताम् ॥ १।५२।१४ ॥

एवमिति । प्रियवाक्येनातिथ्यं कृतम् ॥ १।५२।१५१६ ॥

मैत्रेण स्नेहयुक्तेन ॥ १।५२।१७ ॥

एवं ब्रुवन्तमिति । न्यमन्त्रयत भोजनार्थं नियमनं कृतवान् ॥ १।५२।१८१९ ॥

एवमुक्त इति । कल्माषीं चित्रवर्णाम्, होमधेनुम् ॥ १।५२।२० ॥

एहीति । सबलस्येति राजर्षेस्सत्कारं कर्तुं व्यवसितः उद्युक्तः । मे मम कृते । संविधत्स्व तदुपयोगिपदार्थजातं सम्पादय ॥ १।५२।२१ ॥

यस्य यस्येत्यादि । षड्रसेषु मधुरादिषु । यद्यस्य यस्याभिपूजितम् अभिमतं तत्सर्वं यथाकामं मम कृते अभिवर्ष प्रवर्षस्वेत्यर्थः ॥ १।५२।२२ ॥

रसेनेति । रसेन रसवता अन्नेन भक्ष्येण शष्कुल्यादिना, पानेन पेयेन पानकरसादिना । लेह्येन जिह्वास्वाद्येन क्षौद्रादिना । चोष्येण अधरपुटग्रह्येण दध्यादिना । अन्नानां निचयं शाल्यन्नाज्यादिभोज्यसमूहम् । सर्वमुच्चावचम् । शबले इति धेनु सम्बोधनम् ॥ १।५२।२३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विपञ्चाशः सर्गः ॥ ५२ ॥