तस्येति । हृष्टरोमेत्यतिमानुषश्रीरामदर्शनेनेत्यर्थः ॥ १।५१।१२ ॥
स ताविति । निषण्णौ आसीनौ ॥ १।५१।३ ॥
अपीति । अपिः प्रश्ने । ते त्वया ॥ १।५१।४५ ॥
अपि रामायेत्यादि । दैवेन विधिना यदनुष्ठितं मातुः सम्बन्धि यद्वृत्तं रामायापि कथितम्, निवेदितम् ॥ १।५१।६ ॥
अपीति । रामसन्दर्शनात् रामसन्दर्शनमारभ्य ॥ १।५१।७ ॥
अपि म इति । पूजां प्राप्य पूजां स्वीकृत्य ॥ १।५१।८१० ॥
भार्गवेण जमदग्निना ॥ १।५१।११ ॥
तदिति । भाषितम्, व्यक्तमुक्तम् ॥ १।५१।१२ ॥
स्वागतं त इति । अपराजितम् अविहतप्रभावम् ॥ १।५१।१३ ॥
अचिन्त्येति । तपसा ब्रह्मर्षिः तपसैव ब्रह्मर्षित्वं प्राप्तः ॥ १।५१।१४१५ ॥
श्रूयतामिति । बलं क्षत्रबलम्, यथा यादृशम्, वृत्तं तपोरूपम्, यथा यादृशम् ॥ १।५१।१६१९ ॥
अकारयत् स्वार्थे णिः ॥ १।५१।२०२५ ॥
अब्भक्षैरिति । अप एव भक्षयन्तीत्यब्भक्षाः, भक्ष्यस्थाने अपामेव स्वीकारात् । आहारान्तरनिवृत्तिरर्थाद्गम्यते । दान्तैर्नियतमनस्कैः । वालखिल्यैः वालखिल्याख्यैः । वैखानसैः वानप्रस्थविशेषैः । जयतां शूराणाम् ॥ १।५१।२६२८ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायामेकपञ्चाशः सर्गः ॥ ५१ ॥