तत इति । प्रागुत्तरां प्राच्युदीच्योरन्तरालम् ॥ १।५०।१२ ॥
साधुत्वे हेतुः बहूनीति । नानादेशनिवासिनां ब्राह्मणानां बहूनि सहस्राणि । इह जनकस्य यज्ञभूमौ सन्तीति शेषः ॥ १।५०।३ ॥
ऋषीति । किञ्च शकटीशतसङ्कुलाः मुनिवाहनभूतानां शकटीनां शतेन सङ्कुलाः ऋषिवाटाः मुनिनिवासस्थानानि दृश्यन्ते, तथा च अधिकः सम्मर्दो ऽस्तीति भावः । फलितमर्थं श्रीरामो विज्ञापयति विधीयतामिति । देशो निवासस्थानम् । विधीयतां कल्प्यताम् ॥ १।५०।४ ॥
रामस्येति । विविक्ते असम्बाधे । सलिलायुते सलिलवति ॥ १।५०।५ ॥
विश्वामित्र इति । अनुप्राप्तमागतम् ॥ १।५०।६ ॥
विश्वामित्रायेति । धर्मेण धर्मशास्त्रोक्तमार्गेण ॥ १।५०।७ ॥
प्रतिगृह्यते । निरामयम् अविकलत्वम् ॥ १।५०।८ ॥
स इति । यथान्यायं यथार्हं तैस्समागच्छत् ॥ १।५०।९१२ ॥
अद्येति । यज्ञसमृद्धिर्यज्ञानां बाहुल्यम् ॥ १।५०।१३ ॥
यज्ञोपसदनम्, देवयजनम् ॥ १।५०।१४ ॥
द्वादशाहमित्यादि । मनीषिणः ऋत्विजः द्वादशाहम्, द्वादशदिनानि । शेषं यज्ञशेषम् ॥ १।५०।१५१८ ॥
कथमिति, किमर्थं कस्मै प्रयोजनाय, कस्य वा पुरुषस्य कार्यं साधयितुम् ॥ १।५०।१९ ॥
भूषयन्ताविति । इङ्गितम् सूक्ष्माङ्गव्यापारः । चेष्टितं हासादिस्थूलाङ्गव्यापारः ॥ १।५०।२०२२ ॥
तच्चेति । अव्यग्रं रक्षस्समाक्रान्ते ऽपि मार्गे भयरहितमागमनम् । महाधनुषि जिज्ञासां सारपरीक्षाम् ॥ १।५०।२३२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चाशः सर्गः ॥ ५० ॥