अफल इति । अफलः अपगतवृषणः । अग्निपुरोगमान् अग्निपुरस्सरान् ॥ १।४९।१ ॥
इन्द्रः सुरान् वञ्चयति कुर्वतेति । सुरकार्यं गौतमतपोभङ्गरूपम् ॥ १।४९।२ ॥
अस्तु ततः किम् ? तत्राह अफल इति । तेन गौतमेन अफलः अवृषणः कृतो ऽस्मि, साच निराकृता शप्ता, तथापि कथं सुरकार्यं कृतम्, तत्राह शापेति । शापमोचनेन तदीयतपोभङ्गार्थमेव मया अकार्यं कृतमिति भावः ॥ १।४९।३ ॥
तस्मादिति । हे सर्वे सुरवराः सर्वे यूयमिति सर्वशब्दद्वयनिर्वाहः ॥ १।४९।४ ॥
पितृदेवाः कव्यवाहनादयः, तानपेत्य हव्यवाहनाग्निमुखेनाहुः । अग्नेस्तु वचनं श्रुत्वेति वक्ष्यमाणत्वात् ॥ १।४९।५ ॥
अयमिति । अयं मेषः पितृदेवतानां भवतां हविष्ट्वेन कल्पितो मेषः ॥ १।४९।६ ॥
अपलस्त्विति । अफलो मेषः । भवतां परां तुष्टिं प्रदास्यति । किञ्च भवतां हर्षणार्थम् अफलमेषपललमिति शेषः । दास्यन्तीति भवता परां तुष्टिं दास्यन्तीति योजना ॥ १।४९।७९ ॥
तदाप्रभृतीति । यः पितृदेवाः समागताः सन्तः इन्द्रं प्रति । तेषां फलैः तेषां तस्य मेषस्य फलैः, फलाभ्यामयोजयन्, तदाप्रभृति तस्मात्कारणात् अफलान् मेषान् भुढ्जत इति योजना । तेषां फलैरितिबहुवचनमेकवचनत्वे ॥ १।४९।१०११ ॥
तदिति । महातेजः हे राम एनां तारय ॥ १।४९।१२१३ ॥
ददर्शेत्यादि । सार्धश्लोकद्वयमेकान्वयम् । सतुषारवृतामित्यत्र स इति छेदः । स रामो महाभागः अहल्यां ददर्शेत्यन्वयः । अहल्यां विशिनष्टि तपसेति । तपसा तपोमहिम्ना । द्योतितप्रभां बहिरदृश्यत्वे ऽपि अन्तरेव भासमानामित्यर्थः । सुरासुरैस्तद्रूपैः लोकैर्जनैः समागम्यापि दुर्निरीक्ष्यां
दिव्याम् अमानुषलावण्यशालिनीमित्यर्थः । मायामयीमिव मायानिर्मितामिव, विस्मयकरीमित्यर्थः । किञ्च मध्य इति अम्भसः लक्षणया जलाधारस्य मेघस्येत्यर्थः । मध्ये स्थितामिति शेषः । दीप्तां सूर्यप्रभामिव दुराधर्षां दुष्प्रापाम् । निबिडजलधरसम्भृतां सूर्यप्रभामिव द्रष्टुमशक्यामित्यर्थः ॥ १।४९।१४१५ ॥
सा अहल्या यावद्रामदर्शनं तावद्दुर्निरीक्ष्येति पूर्वेणान्वयः । शापस्येति । शापस्यान्तम्, रामदर्शनादिति शेषः । तेषां विश्वामित्रादीनां दर्शनमागता प्राप्ता ॥ १।४९।१६ ॥
राघवाविति । तथेत्युत्तरशेषः । सा अहल्या, गौतमवचः श्रीरामदर्शनानन्तरं तव शापनिवृत्तिर्भविष्यतीति गौतमवाक्यं स्मरन्ती सती तौ रामलक्ष्मणौ प्रति जग्राह प्रत्युपचचारेत्यर्थः ॥ १।४९।१७ ॥
पाद्यमिति । सुसमाहिता अप्रमत्तेत्यर्थः । विधिदृष्टेन शास्त्रदृष्टेन ॥ १।४९।१८ ॥
पुष्पवृष्टिरिति । देवदुन्दुभिनिस्स्वनैः सहेति शेषः ॥ १।४९।१९२० ॥
गौतम इति । अहल्यासहितः । सुखीत्यनेन योगबलाद्रामागमनं ज्ञात्वा तद्बलादेव झटिति तदाश्रमप्राप्तिर्गौतमस्येति बोध्यम् ॥ १।४९।२१२२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां एकोनपञ्चाशः सर्गः ॥ ४९ ॥