०४८ अहल्याचरितम्

पृष्ट्वेति । सुमतिर्नाम राजा तत्र परस्परसमागमे सति कुशलं पृष्ट्वा कथान्ते महामुनिं विश्वामित्रं प्रति व्याजहार । नयनानन्दकस्य श्रीरामस्य प्रष्टुं योग्यतया परस्परकुशलप्रश्नं सङ्क्षिप्य उवाचेत्यर्थः ॥ १।४८।१ ॥

इमावित्यारभ्य श्रोतुमिच्छामि तत्त्वत इत्यन्तमेकं वाक्यम् । देवतुल्यपराक्रमौ इन्द्रतुल्यपराक्रमौ । गजसिंहगती गजवद्गम्भीरगमनौ । सिंहवदप्रतिहतगमनावित्यर्थः । शार्दूलवृषभोपमौ अधृष्यत्वे शार्दूलोपमौ सविलासगमनत्वे वृषभोपमौ । पद्मपत्रविशालाक्षावित्यनेन भाग्यसम्पत्तिस्सूचिता । वीरधर्मं सूचयति खङ्गेति । समुपस्थितयौवनौ प्राप्तयौवनौ । यदृच्छया स्वेच्छया देवलोकात्सम्प्राप्तौ भुवमवतीर्णौ । अमराविव स्थितौ चन्द्रसूर्यावम्बरमाकाशमिव इमं देशं भूषयन्तौ । किञ्च प्रमाणेङ्गितचेष्टितैः प्रमाणं शरीरस्यौन्नत्यम्, इङ्गितं गाम्भीर्यम्, चेष्टितं हर्षामर्षयोरपि निर्विकारत्वम् तैः । परस्परस्य सदृशौ अन्योन्यसदृशौ, न त्वन्योन्ययोस्सदृशो ऽस्तीति भावः । किमर्थं कस्मै प्रयोजनाय । कस्य वा पुत्राविति शेषः । आदरादाश्चर्याच्च पुनः पुनः पृच्छति किमर्थमिति । दुर्गमे पथि कान्तार इत्यर्थः ॥ १।४८।२६ ॥

तस्येति । यथावृत्तं न्यवेदयदित्यनेन दशरथतनयाविमाविति कथितवानित्यवगम्यते । राक्षसानां च तद्वधं स चासौ वधश्चेति तद्वधः, तं लोकप्रसिद्धं वधमित्यर्थः ॥ १।४८।७८ ॥

तत इति । सुमतेरिति पञ्चमी ॥ १।४८।९१० ॥

मिथिलेति । दृश्य दृष्ट्वा ॥ १।४८।११ ॥

श्रीमदिति । आश्रमसङ्काशम् आश्रमवद्भासमानम्, तथापि मुनिजनवर्जितम् इदं

किन्वित्याश्चर्यम् ॥ १।४८।१२१३ ॥

हन्तेति हर्षे ॥ १।४८।१४१५ ॥

सचेति । वर्षपूगान् संवत्सरगणान् ॥ १।४८।१६ ॥

तस्येति । अन्तरम् अवकाशम् ॥ १।४८।१७ ॥

ऋतुकालमिति । अर्थिनः सुतार्थिनः । सुसमाहिते सुन्दरि ॥ १।४८।१८२७ ॥

ममेति । विफलः विगतवृषणः ॥ १।४८।२८३१ ॥

शापान्तं कथयति यदेति । घोरमित्यनेन इदं वनं मुनिवर्जितं भवत्विति गौतमेन शप्तमिति गम्यते, अत एव कोपाच्छप्तं महात्मनेत्युक्तम् । वनं प्रत्यागमिष्यति पादविक्षेपं करिष्यति, तदा श्रीरामचन्द्रपादारविन्दरजःकणस्पर्शादेव पूता भविष्यसीति भावः ॥ १।४८।३२ ॥

तस्येति । स्वं वपुर्धारयिप्यसीत्यनेन पद्मपुरणोक्तपाषाणावस्था सूच्यते, तथाच मच्छापपरिप्राप्तपाषाणावस्थां विहाय निजशरीरं प्राप्स्यसीति भावः । तथा च पाद्मे “सा ततस्तस्य रामस्य पादस्पर्शान्महात्मनः । अभूत्सुरूपा वनिता समाक्रान्ता महाशिला ॥ " इति ॥

१।४८।३३३४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां अष्टचत्वारिंशः सर्गः ॥ ४८ ॥