०४७ मरुदुत्पत्तिः

॥ १।४७।१२ ॥

प्रियमिति । मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमेऽ मरुतामावहादीनां सप्तानां मम पुत्रकाः इमे सप्तस्थानपालाः स्कन्धरक्षिणो भवन्तु ॥ १।४७।३ ॥

वातस्कन्धा इति । वातस्कन्धाः वाताभिमानिन्यो देवताः ॥ १।४७।४५ ॥

त्वत्कृतेनेति । यतस्त्वया मारुद इत्युक्तम् अतो मारुता इति सञ्ज्ञास्तेषामिति भावः ॥ १।४७।६९ ॥

अस्तु तर्हि किं तत्राह एष देश इति । यस्य मे मम । विषयं देशं गतः । आवहादीनां नामानि “आवहः प्रवहश्चैव संवहश्चोद्वहस्तथा । विवहाख्यः परिवहः परावह इति क्रमात् । सप्तैते मारुतस्कन्धा महर्षिभिरुदाहृताः । आवहो वर्तयेद्वायुर्मेघोल्कावृष्टिविद्युतः । वर्तयेत्प्रवहश्चैव तथा मार्तण्डमण्डलम् । संवहो मारुतस्कन्धस्तथा शीतांशुमण्डलम् । वर्तयेदुद्वहश्चापि तथा नक्षत्रमण्डलम् । पञ्चमो विवहाख्यश्च तथैव ग्रहमण्डलम् । सप्तर्षिचक्रं स्वर्गङ्गां षष्ठः परिवहस्तथा । परावहस्तथा वायुर्वर्त्तयेद्ध्रुवमण्डलम् ॥ " इति ॥

१।४७।१०२२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तचत्वारिंशस्सर्गः ॥ ४७ ॥