०४६ दितिकथा

हतेष्विति । मारीचं मरीचिब्रह्मपुत्रम् ॥ १।४६।१६ ॥

एवमुक्त्वेति । पाणिना समालभ्य स्पृष्ट्वा । ममार्ज आश्वासयामास ॥ १।४६।७ ॥

गत इति । कुशप्लवनं विशालायाः पूर्वस्थानं तपोवनम् ॥ १।४६।८ ॥

तप इति । गुणसम्पदा शुश्रूषोपयोगिगुणसमृद्ध्या ॥ १।४६।९१० ॥

गात्रेति । सर्वेषु कालेषु परिचचार, तस्या अशुचित्वप्रतीक्षयेति भावः ॥ १।४६।११ ॥

अथेति । दशोने दशवर्षोने ॥ १।४६।१२१५ ॥

एवमिति । दिवाकरे मध्यं प्राप्ते सति । शीर्षतः शय्यायां शीर्षस्थाने पादौ कृत्वा निद्रयापहृता निद्रया गृहीतेत्यर्थः । (अनेन दिवास्वापरूपपापेन शय्यापादस्थाने मस्तककरणेन चाशुचित्वं सूचितम् । केचित्तु उपविष्टाया एव प्रह्वतया पादपर्यन्तं शिरस्सम्बन्धेन शीर्षे पादसम्बन्धः । तेन ब्राह्मणस्य शूद्रस्पर्श इव शिरसः पादस्पर्शे ऽशुचित्वं सूचितम् । तपसि स्थितायाश्शय्यासम्बन्धाभावेन पूर्वव्याख्याया अयुक्तत्वादित्याहुः । परे तु भूशयने ऽपि दक्षिणपूर्वदिशोः शिरस्थापनयोग्यतायाः स्मृतिषूक्तेः तद्वैपरीत्येन शयनस्याशुचित्वसूचकत्वमस्यैवेत्याहुः) ॥ १।४६।१६ ॥

दृष्ट्वेति । शिरःस्थाने कृतौ पादौ, पादतः पादस्थाने कृतमूर्द्धजां अत एवाशुचिं तां दृष्ट्वा जहास स मुमोद चेत्यन्वयः । तपश्चर्य्या वृथा गमितेति हासः । रन्ध्रान्वेषणं सफलं जातमिति मोदः ॥ १।४६।१७२३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षट्चत्वारिंशः सर्गः ॥ ४६ ॥