०४५ विशाला-गतिः

विश्वामित्रेत्यादि । पूरणं गङ्गयेति शेषः ॥ १।४५।१५ ॥

गतेति । भगवती रात्रिः गङ्गावतरणानुचिन्तनादिति भावः ॥ १।४५।६ ॥

तरामेति । भगवन्तमिह प्राप्तं ज्ञात्वा ये प्राप्ताः तेषामृषीणां शेषभूता इयं नौस्त्वरितमागता तराम, अनयेति शेषः ॥ १।४५।७ ॥

तस्येति । सन्तारं कारयामास, नाविकैरिति शेषः ॥ १।४५।८ ॥

उत्तरमिति । सम्पूज्यर्षिगणमिति । यैर्नौर्नीता तेषां गणं सम्पूज्य निविष्टाः स्थिताः ॥ १।४५।९११ ॥

कतर इति । विशालायां यो ऽधिकत्वेन वर्तते अयं राजवंशः कतर इत्यर्थः ॥ १।४५।१२ ॥

तस्येति । विशालस्य पुरातनमिति विशालो नाम तन्नगरस्य निर्माता राजा तस्य पुरातनं प्राक्तनं वृत्तमिति शेषः ॥ १।४५।१३१६ ॥

तेषामिति । रमम् अमृतम् प्राप्स्याम इत्यत्र इतिश्ब्दो द्रष्टव्यः ॥ १।४५।१७ ॥

तत इति । योक्त्रम् मथनरज्जुम् ॥ १।४५।१८ ॥

अथ देवा महादेवमिति सार्द्धश्लोकमेकं वाक्यम् । प्रादुरासीदित्यर्धमेकं वाक्यम् ॥ अथ वर्षेति । अप्सराः । अजन्तत्वामार्षम् । उत्पेतुरिति शेषः ॥ १।४५।१९ ॥

अप्सराः । अजन्तत्वामार्षम् ।

अप्स्विति । निर्मथनादप्सु यो रसः तस्माद्रसाद्यत उत्पेतुस्तस्मादप्सरसो ऽभवन्नित्यन्वयः ॥ १।४५।२०२२ ॥

वरुणस्येति । वारुणी सुराधिदेवता । परिग्रहं केनचित्स्वीकारम् ॥ १।४५।२३२४ ॥

असुरा इति । तेन सुराया अपरिग्रहेणासुराः । अर्श आदित्वादच्प्रत्ययः ॥ १।४५।२५२७ ॥

एकत इति । एकतो ऽभ्यागमनबलवृद्धये इति भावः । वीरेति रामसम्बोधनम् । मोहनम्, भयावहम् ॥ १।४५।२८ ॥

यदेति । मोहिनीं मोहजननीम्, मायामास्थाय स्वमाययाद्भुतयोषिदाकृतिं परिगृह्य ॥ १।४५।२९ ॥

य इति । अक्षयम्, षड्भावविकारशून्यम् । पुरुषोत्तमं क्षराक्षरपुरुषेभ्यः उत्तमम् ॥ १।४५।३० ॥

अदितेरिति । दैतेयादित्ययोः असुरसुरवर्गयोः ॥ १।४५।३१३२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥