०४४ सगर-पुत्र-स्वर्गतिः

स गत्वेति । भूमेस्तलम् पातालम् ॥ १।४४।१४ ॥

इयमित्यादि । दिव्या गङ्गानाम सा त्रिपथगेति भागीरथीति च त्वत्कृतेन नाम्ना विश्रुता स्थास्यति । त्रिपथगाशब्दं निर्वृक्ति त्रीनित्यादिना । यतः त्रीन् पथः स्वर्गादीन् भावयन्ती प्रववृते, ततो हेतो स्त्रिपथगेति स्मृता ॥ १।४४।५६ ॥

कुरुष्वेति । प्रतिज्ञां गङ्गासलिलप्रदानेन सागरांस्तारयिष्यामीत्येवंरूपाम्, अपवर्जय समापय ॥ १।४४।७ ॥

पूर्वकेण सगरेण ॥ १।४४।८१० ॥

दिलीपेनेति । गङ्गामानेतुं न शङ्किता न विचारिता । प्रतिज्ञेति शेषः । चिन्ताविषयमपि न

प्रापितेत्यर्थः ॥ १।४४।११ ॥

सेति । सागरादिभिर्दुस्तरा प्रतिज्ञा समतिक्रान्ता निस्तीर्णा ॥ १।४४।१२ ॥

यच्च गङ्गेति । आयतनम् आयतनसमम् । यद्वा धर्मस्यायतनं धर्मप्राप्यस्थानम् । महत् ब्रह्मलोकरूपम् ॥ १।४४।१३ ॥

यथास्या ब्रह्मलोकप्रापकत्वं तदाह प्लावयस्वेति । आत्मानं स्वदेहम् । सदोचिते सिंहकर्कटमध्ये ऽपि स्नानादिव्यवहारोचिते, भूप्रवहन्नदीनामेव तत्काले भौमत्वमूलरजःसम्बन्धात् स्नानाद्यनर्हत्वम् अनेन स्नानमात्रेण गङ्गा ब्रह्मलोकप्राप्तिकरीति सूचितम् ॥ १।४४।१४१७ ॥

कृतोदक इति । अन्येषामपीति शेषः । सागराणां कृत्वा सलिलमिति पूर्वमुक्तत्वात् ॥ १।४४।१८१९ ॥

उपसंहरति एष इति । स्वस्तिभद्रयोर्ग्रहणं तत्प्रीत्यादरसूचनार्थम् ॥ १।४४।२० ॥

एतदाख्यानश्रावयितुः फलमाह धन्यमिति ॥ १।४४।२१ ॥

अथ श्रोतुः फलमुच्यते इदमिति । अव्यग्रः सावधानमनाः ॥ १।४४।२२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥