०४३ गङ्गावतारः

देवदेव इति । उपासत उपास्त । उमापतिमिति शेषः ॥ १।४३।१३ ॥

तदेति ईश्वरेण धारणाङ्गीकारे कृते, गर्वादित्यर्थः । शिवे शोभने ॥ १।४३।४५ ॥

तस्या इति । तस्या वलेपनं गर्वम् ॥ १।४३।६ ॥

सेति । जटामण्डलगह्वरे जटामण्डलेन । हिमवत् हिमबिन्दुवत् पतिता ॥ १।४३।७८ ॥

तत्रेति । अबम्भ्रमत् पुनः पुनरभ्रमत् । अनेन भगीरथेन अनुव्रजत् । अडभाव आर्षः ॥ १।४३।९१८ ॥

विमानैरिति । गगनाकारैः गगनवद्विपुलैरित्यर्थः । पारिप्लवगताः पारिप्लवं सम्भ्रमम्, गताः ॥ १।४३।१९२१ ॥

शिंशुमारेति । शिंशुमारः नक्रः । विक्षिप्तैः परितः स्रुतैः ॥ १।४३।२२ ॥

पाण्डरैरिति । कीर्यमाणैः सलिलोत्पीडैः सलिलसमूहैः । हंससम्प्लवैः हंससञ्चारैश्चाकीर्णं व्याप्तम् अभवत् ॥ १।४३।२३ ॥

क्वचिदिति । आयतम् ऋजु । विनतं नम्रम् । उद्भूतम् ऊर्ध्वमुखम् । एतानि क्रियाविशेषणानि ॥ १।४३।२४२५ ॥

तदिति । शङ्करशिरः शङ्करशिरसि, भ्रष्टं पतितम् । गतकल्मषं कल्मषापहम् ॥ १।४३।२६ ॥

तत्रेति । तोयं पस्पृशुः, सस्नुरित्यर्थः ॥ १।४३।२७ ॥

शापादिति । शापाद्धेतोः गगनात् स्वस्थानात् । गतकल्मषाः शापविमुक्ताः ॥ १।४३।२८२९ ॥

मुमुद इति । मुदितो मुमुदे, पुनः पुनर्जहर्षेत्यर्थः ॥ १।४३।३०३५ ॥

तस्या इति । परमाद्भुतं यथा भवति तथा ॥ १।४३।३६ ॥

तत इति । जह्नुं पूजयन्ति स्तुवन्ति स्म । दुहितृत्वे नयन्ति दुहितृत्वमनयन्निति यावत् ॥ १।४३।३७ ॥

तत इति । यतो दुहितृत्वमनयत् तस्माद्धेतोः जह्नुसुता जाह्नवीति नामद्वयं समासवृत्त्या तद्धितवृत्या च ॥ १।४३।३८४१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रिचत्वारिंशः सर्गः ॥ ४३ ॥