कालधर्ममिति । प्रकृतीजनाः अमात्याः । रोचयामासुः ऐच्छन् ॥ १।४२।१२ ॥
तस्मिन्निति । तपस्तेपे गङ्गाया भूलोकावतरणार्थमिति शेषः ॥ १।४२।३४ ॥
दिलीप इति । दुःखोपहतया बुद्ध्या पित्रा दुश्चरे तपसि कृते ऽपि तेषां गतिर्नाभूदिति । नाध्यगच्छत नाध्यगच्छत् ॥ १।४२।५ ॥
निश्चयानधिगममेवाह कथमित्यादिना ॥ १।४२।६७ ॥
दिलीपस्त्विति । अकारयत् कृतवान् ॥ १।४२।८ ॥
व्याधिना पितृणामुद्धरणालाभजन्यदुःखजेन । तद्दिलीपवंशजो रघुपुत्रो दिलीपः कालिदासोक्तो ऽन्य एवेति बोध्यम् ॥ १।४२।९१० ॥
स चाप्रज इत्यस्य मन्त्रिष्वाधायेत्युत्तरेणान्वयः । प्रस्तावाद्राज्यं च मन्त्रिष्वाधाय गङ्गावतरणेच्छुस्तप आतिष्ठत् ॥ १।४२।१११२ ॥
स इति । पञ्चतपाः पञ्चानामग्नीनां मध्ये तपो यस्य । मासाहारः मासे गते आहारो यस्य सः ॥ १।४२।१३ ॥
तस्य राज्ञो महात्मन इत्यस्य सुप्रीत इत्युत्तरेण सम्बन्धः ॥ १।४२।१४१६ ॥
भगीरथेति । तपसा पितामहोद्धारप्रवृत्त्या चेति चकारस्यार्थः ॥ १।४२।१७१८ ॥
यदि मे भगवन्नित्यादि । असन्दिग्धे सन्दिग्धवचनं ऽवेदाश्चेत्प्रमाणम्ऽ इतिवत् । सलिलम् स्पर्शमात्रेण स्वर्गतिसाधनं सलिलम् ॥ १।४२।१९ ॥
गङ्गाया इति । स्वर्गं गच्छेयुरत्यन्तमिति । अत्यन्तमक्षय्यम् ॥ १।४२।२० ॥
देयेति । इक्ष्वाकूणां कुले जातस्य मे सन्ततिर्देया, यया नः कुलं नावसीदेत् एष वरः परो द्वितीयो ऽस्त्वित्यन्वयः ॥ १।४२।२१२३ ॥
इयमिति । इयं हैमवती गङ्गा । कथमिति चेत्, हिमवतः ज्येष्ठा सुता ॥ १।४२।२४ ॥
गङ्गाया इति । पृथिवी तां धारयितुं न सहिष्यति । तत्र पृथिवीस्थाने हरो नियुज्यताम्, प्रार्थ्यताम् ॥ १।४२।२५ ॥
तमेवमिति । गङ्गामाभाष्य ऽअस्य मनोरथं पूरयऽ इति गङ्गामाभाष्य गङ्गां प्रत्युक्त्वा । देवैः आजानजैः । मरुद्गणैः कर्मदेवैः ॥ १।४२।२६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्विचत्वारिंशः सर्गः ॥ ४२ ॥