०४१ सगर-यज्ञ-समाप्तिः

पुत्रानिति । नप्तारम् पौत्रम् ॥ १।४१।१ ॥

शूर इति । गतिं मार्गम् । अन्विच्छ अन्वेषय । येन अश्वो ऽपहारितः अपहृतः तस्य च गतिम् ॥ १।४१।२ ॥

अन्तरिति । अन्तर्भौमानि भूमेरन्तर्जातानि । सत्त्वानि प्राणिनः ॥ १।४१।३ ॥

अभिवाद्येति । पारगः समाप्तिकरः । अभिवाद्यान् नमस्कारार्हान् । मम यज्ञस्य पारगः पारप्रापकश्च भवेत्यर्थः ॥ १।४१।४५ ॥

पितृभिः खातं भूमेरन्तर्विद्यमानं मार्गम् । पितृवृत्तान्तपरिज्ञानाय प्रापद्यत प्राप्तः ॥ १।४१।६७ ॥

निरामयं क्षेमम् ॥ १।४१।८ ॥

आसमञ्ज असमञ्जपुत्र ॥ १।४१।९१० ॥

अभिचोदितः बोधितः ॥ १।४१।१११३ ॥

शोकः विलापः ॥ १।४१।१४१५ ॥

विसार्येति । निपुणां विवेचनसमर्थाम् । पितृणां मातुलम्, सुपर्णभगिनी सुमतिरिति प्रागुक्तत्वात् । अनिलोपमम्, वेगेन वायूपमम् ॥ १।४१।१६ ॥

लोकसम्मतः लोकहितः । एतन्मूलकतया सर्वलोकहितकारिण्या गङ्गाया भूलोके अवतरणात् ॥ १।४१।१७ ॥

हि यस्मात्कपिलेन दग्धाः यतश्च महाबलाः महाबलवत्त्वेन प्रायश्चित्तमर्यादातिक्रान्तपापवन्तः । अतो लौकिकं लोकतः प्राप्तम्, सलिलं दातुं नार्हसि ॥ १।४१।१८१९ ॥

भस्मेति । क्लिन्नं सिक्तम् । नयिष्यति नेष्यति अनेन सगरपुत्राणां मन्वाद्युक्तप्रायश्चित्ताविषयत्वं सूचितम् । तत्प्रायश्चित्तविषयाणामपि पापिनां पुद्गलस्य गङ्गाजलस्पर्शः सर्वपापप्रायश्चित्तमिति सूचितम् । अकृतप्रायश्चित्तानामपि महापातकिनार्मौर्ध्वदैहिककर्मायोग्यानां गङ्गाजलस्पृष्टपुद्गलानां विनापि प्रायश्चित्तान्तरं सकलौर्ध्वदैहिकक्रियायोग्यत्वं च सूचितम् ॥ १।४१।२० ॥

संवर्तयितुम्, समापयितुम् ॥ १।४१।२१२२ ॥

तत इति । वृत्तं पितृवृत्तान्तम्, सुपर्णवचनं यथा तथा न्यवेदयत् ॥ १।४१।२३२५ ॥

अकृत्वेति । निश्चयमुपायम् ॥ १।४१।२६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याक्यायाम् एकचत्वारिंशः सर्गः ॥ ४१ ॥