०४० सगर-सुत-विनाशः

देवतानामिति । कृतान्तबलमोहितान् दैवबलमोहितान् ॥ १।४०।१ ॥

यस्येयमित्यादि । यदधीना वसुधा । कापिलमिति, य इति शेषः । “तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः” इति तस्यैव स्वामित्वं स्वाभाविकम्, इतरेषां तु अभिधानमात्रम् । अतः स एवास्मत्प्रार्थनामन्तरेणापि सागरान् दण्डयिष्यतीत्यभिप्रायः ॥ १।४०।२ ॥

पृथिव्या इति । सनातनः अवश्यम्भावी, दृष्टो निश्चितः । अदीर्घजीविनामितिच्छेदः । विनाशो दृष्ट इति सम्बध्यते ॥ १।४०।३ ॥

पितामहेति । त्रयस्त्रिंशद्देवताः अष्टौ वसवः, एकादश रुद्राः, द्वादशादित्याः, अश्विनौ च ॥ १।४०।४ ॥

सगरस्येति । निर्घातसमनिस्वनः निर्घातनिस्वनसमः ॥ १।४०।५ ॥

तत इति । अभिप्रदक्षिणम् अभितः सञ्चारम् ॥ १।४०।६७ ॥

किं करिष्यामेति । बुद्धिरुपायः ॥ १।४०।८९ ॥

भूय इति । निवर्तथ निवर्तध्वम् ॥ १।४०।१०११ ॥

खन्यमान इति । षष्टियोजनसहस्रपरमपीति शेषः ॥ १।४०।१२१३ ॥

यदेति । यदा पर्वणि यस्मिन् काले भवेत् भवति । यद्वा यदापर्वणि यस्मिन् क्षणे । “तिथिभेदे क्षणे पर्व” इत्यमरः ॥ १।४०।१४१६ ॥

महापद्ममिति । धारयन्तं पृथिवीमिति शेषः ॥ १।४०।१७ ॥

प्रदक्षिणं कृत्वा दिग्गजमिति शेषः ॥ १।४०।१८१९ ॥

तमिति । निरामयं कुशलम् ॥ १।४०।२०२३ ॥

त इति । कपिलम् कपिलरूपधारिणम् ॥ १।४०।२४ ॥

तस्य कपिलस्य ॥ १।४०।२५ ॥

ते तं यज्ञहनमिति । हन्तीति हनः, पचाद्यच् । अविचारतः तमेव अश्वापहारद्वारा यज्ञहन्तारं ज्ञात्वेत्यर्थः ॥ १।४०।२६२९ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चत्वारिंशः सर्गः ॥ ४० ॥