विश्वामित्रेति । कथान्ते यज्ञोपक्रमकथान्ते ॥ १।३९।१ ॥
श्रोतुमिति । इमां सगरयज्ञसम्बन्धिनीम्, समुपाहरत् कृतवान् ॥ १।३९।२ ॥
विश्वामित्र इति । प्रहसन्निव विकसितवदनः । अत्र च कारणं स्वविवक्षितमेव सगरयागवृत्तान्तं स्वपूर्वजवृत्तान्ततया श्रवणकुतूहलातिशयेन पृष्टवान् रामभद्र इति । विस्तर इति यज्ञस्येति शेषः ॥ १।३९।३ ॥
शङ्करश्वशुर इति । आसाद्य स्थित इति शेषः । आसन्न इत्यर्थः । निरीक्षेते परस्परमिति । तावुभौ पर्वतौ औन्नत्यातिशयेन परस्परं निरीक्षमाणाविव स्थितावित्यर्थः ॥ १।३९।४ ॥
तयोरिति । प्रशस्तः फलातिशयप्रदः ॥ १।३९।५ ॥
तस्येति । अश्वचर्याम् अश्वानुचरणम्, सगरस्य मते आज्ञायाम् ॥ १।३९।६ ॥
तस्येति । पर्वणि उक्थ्याहे । राक्षसीं तनुम्, यज्ञविघ्नकरणसमर्थाम् । यज्ञीयो यज्ञार्हः ॥
१।३९।७८ ॥
अपनीयते अपह्रियते अतो हर्तारमश्वहर्तारं जहि अश्वश्च शीघ्रमुपनीयताम् ॥ १।३९।९ ॥
यज्ञच्छिद्रम् यज्ञस्य विघ्नः ॥ १।३९।१०११ ॥
गतिमिति । रक्षसां गतिमागतिनिमित्तम्, न पश्यामि प्रसक्त्यभावात् ॥ १।३९।१२ ॥
तदिति । अनुगच्छत चरत ॥ १।३९।१३१४ ॥
यावदिति । खनतेति यदि भूतले न दृश्यते तर्हीति शेषः ॥ १।३९।१५ ॥
दीक्षित इति । इह यज्ञवाटे ॥ १।३९।१६१७ ॥
योजनेति । वज्रस्पर्शसमैः वज्रस्पर्शसमस्पर्शैः नखैः ॥ १।३९।१८१९ ॥
नागानामिति । दुर्धर्षः दुर्भरः ॥ १।३९।२० ॥
योजनानामिति । रसातलं पातालं यथा भवति तथा ॥ १।३९।२१२५ ॥
अयमिति । हन्तीति हनः । यज्ञस्य हनः । हन्तेः पचाद्यच् ॥ १।३९।२६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकोनचत्वारिंशः सर्गः ॥ ३९ ॥