अथ “त्रीन् पथो हेतुना केन” इत्यादिप्रश्नस्योत्तरं वक्तुमुपक्रमते तां कथामिति । अपरं वाक्यं वक्ष्यमाणं प्रश्नोत्तरम् ॥ १।३८।१ ॥
अयोध्येति । प्रजाकामः सन्ततिकामः । स च अप्रजः, अभूदिति शेषः ॥ १।३८।२ ॥
वैदर्भेति । ज्येष्ठपत्नी आसीदिति शेषः ॥ १।३८।३ ॥
अरिष्टनेमिः कश्यपः ॥ १।३८।४ ॥
ताभ्यामिति । भृगुप्रस्रवणे भृगुप्रस्रवणाख्ये हिमवतः पादे ॥ १।३८।५ ॥
अथ वर्षशते पूर्णे तपस्यत इति शेषः ॥ १।३८।६७ ॥
एका जनयिता जनयिष्यति । वंशकरं कुलस्याविच्छेदकरम् ॥ १।३८।८९ ॥
एक इति । इच्छावहे इच्छामः । सत्यं निर्णायकम् ॥ १।३८।१० ॥
तयोरिति । विधीयतां ज्ञाप्यताम् ॥ १।३८।११ ॥
एक इति । बहवो वा महाबलाः इत्यनेन वंशकरा इति गम्यते ॥ १।३८।१२१६ ॥
सुमतिरिति । गर्भतुम्बं तुम्बफलाकारं गर्भपिण्डं व्यजायत व्यजनयत् ॥ १।३८।१७१८ ॥
अथेति । दीर्घेण यौवनशालित्वहेतुत्वात्तृतीया ॥ १।३८।१९ ॥
स चेत्यादि । प्रहसन् स्थित इति शेषः ॥ १।३८।२० ॥
एवमिति । निर्वासितः निष्कासितः । सज्जनप्रतिबाधकः सज्जनपीडकः ॥ १।३८।२१ ॥
तस्य असमञ्जस्य । एतद्वाची असमञ्जशब्दः अदन्तः सान्तश्चेति बोध्यम् ॥ १।३८।२२ ॥
तत इति । समभिजायत समभ्यजायत ॥ १।३८।२३२४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां अष्टात्रिंशः सर्गः ॥ ३८ ॥