तप्यमान इति । देवे शिवे ॥ १।३७।१ ॥
तत इति । साग्निपुरोगमाः अग्निना पुरोगमेन सहिताः ॥ १।३७।२ ॥
येन रुद्रेण । सेनापतिः बीजात्मना दत्तः स परममास्थाय परं मौनमङ्गीकृत्य तपस्तप्यते अनुतिष्ठति ॥ १।३७।३५ ॥
शैलपुत्र्येति । यच्छैलपुत्र्या उक्तं तत्तेन कारणेन न प्रजास्यथ न प्रजनयिष्यथ । पुत्रानिति
शेषः । अक्लिष्टम् अमोघम् ॥ १।३७।६७ ॥
ज्येष्ठेति । तत्सुतम् अग्निक्षिप्तं गर्भं । मानयिष्यति धारयिष्यति । उमाया इति, तद्गर्भधारणम् उमाया बहुमतं देवतोद्देशेन स्वकृतशापस्य वैकल्याभावो रुद्रतेजसः स्वज्येष्ठभगिन्या धारणं च अस्या अपि बहुमानहेतुः ॥ १।३७।८९ ॥
त इति । दैवताः दैवतानि । “दैवतानि पुंसि वा” इत्यमरः ॥ १।३७।१० ॥
देवकार्यमिति । महातेजः इति सम्बोधनम् ॥ १।३७।११ ॥
देवतानामिति । इदं प्रियमित्युवाचेति शेषः ॥ १।३७।१२ ॥
तस्येति अवकीर्यत अवाकिरत् । तेज इति शेषः ॥ १।३७।१३ ॥
समन्तत इति । पावकः तेजोरूपः । अभ्यषिञ्चत व्याप्तवान् । स्रोतांसि कर्णनासादीनि । पूर्णानि तेजो महिम्नेति शेषः ॥ १।३७।१४ ॥
तमित्यादि । अशक्ता धारणे तव तेजसो धारणे अशक्ता । तद्धि तेजस्समुद्धतं । तेनाग्निना तेन तेजसा । सम्प्रव्यथितचेतनास्मीति शेषः ॥ १।३७।१५ ॥
अथेति । सर्वदेवहुताशनः सर्वदेवार्थं हुतमश्नातीति तथा । स्रोतोभ्यो हि तदानघेत्युत्तरश्लोकशेषः ॥ १।३७।१६१७ ॥
यदिति । अस्याः स्रोतोभ्यो यन्निर्गतं (तेजः) रेतः तस्माद्रेतसः तप्तजाम्बूनदप्रभं काञ्चनं हिरण्यं च अभवत् । हिरण्यं रजतम् ॥ १।३७।१८ ॥
ताम्रमिति । तैक्ष्ण्यात् क्षारगुणात् । कृष्णायसमेव कार्ष्णायसम् । मलं किट्टं च सीसकम् ॥ १।३७।१९२० ॥
निक्षिप्तेति । अभिरञ्जितम् व्याप्तम् ॥ १।३७।२१ ॥
जातरूपमिति । सुवर्णं तदाप्रभृति जातरूपमित्युच्यत इत्यन्वयः ॥ १।३७।२२२३ ॥
तमिति । क्षीरसम्भावनार्थाय क्षीरेण सम्भावनं वर्द्धनम् ॥ १।३७।२४ ॥
ता इति । समयं कृत्वा अस्माकं पुत्र इति समयं कृत्वा क्षीरं ददुरिति सम्बन्धः ॥ १।३७।२५ ॥
तत इति । ततः समयकरणात् कार्तिकेय इति ब्रुवन् तमिति शेषः । अडागमाभाव आर्षः । इत्यब्रुवन्निति पदद्वयम् । अस्य श्लोकस्यान्ते न संशय इत्युपरि द्रष्टव्यम् । युष्माकं पुत्रः त्रैलोक्यविख्यातो भविष्यतीत्यब्रुवन्नित्यन्वयः ॥ १।३७।२६ ॥
तेषामिति । गर्भपरिस्रवे स्कन्नं गर्भपरिस्रवेण पतितं स्नापयन्, कृत्तिका इति शेषः ॥ १।३७।२७२८ ॥
प्रादुर्भूतमित्यर्द्धमेकं वाक्यम् । अन्यथा उत्तरार्धस्थपयःशब्देन पुनरुक्तिः स्यात् ॥ १।३७।२९ ॥
एवं तदा षड्भिर्मुखैर्यावदपेक्षितं क्षीरं गृहीत्वा एकाह्ना एकदिनेनैव सुकुमारवपुरपि स्वतेजसैव दैत्यसैन्यगणानजयत् ॥ १।३७।३० ॥
सुरसेनागणपतित्वेन तमभ्यषिञ्चन्नित्यर्थः । ततः सकलासुरजयाद्धेतोः ॥ १।३७।३१३२ ॥
धन्यत्वपुण्यत्वे विवृणोति भक्तश्चेति । ऐहलौकिकफलेन धन्यत्वमामुष्मिकेन पुण्यत्वम्, पुत्रपौत्रैश्चेत्यस्य युक्त इति शेषः । स्कन्दसालोक्यतां देहत्यागे व्रजेत् ॥ १।३७।३३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तत्रिंशः सर्गः ॥ ३७ ॥