०३६ उमामाहत्म्यम्

उक्तवाक्य इति ॥ १।३६।१ ॥

धर्मयुक्तमिति । शैलराजस्य ज्येष्ठाया दुहितुरिदं कथितमित्यन्वयः ॥ १।३६।२ ॥

त्रीन् पथ इत्यादिना पृष्टस्यैव पुनः प्रश्नो गङ्गाकथाश्रवणकुतूहलातिशयादिति द्रष्टव्यम् ॥ १।३६।३ ॥

कर्मभिः व्यापारविशेषैः ॥ १।३६।४ ॥

तथेति । निखिलेन विस्तरेण ॥ १।३६।५६ ॥

शितिकण्ठस्येति । देवस्य क्रीडतः । भावलक्षणे षष्ठी । दिव्यम् अमानुषम् ॥ १।३६।७ ॥

तत इति । इह पार्वत्याम् । यद्भूतमुत्पद्यते कस्तत्प्रतिसहिष्यत इति भयोद्विग्नाः भयेन भीत्या उद्विग्नाः ॥ १।३६।८११ ॥

त्रैलोक्येति । तेजस्तेजसि धारय तेजः रेतः, तेजः आत्माः तस्मिन् ॥ १।३६।१२१३ ॥

धारयिष्याम्यहं तेज इति । स्थानादक्षुभितमिति भावः । उमया सह वर्तमान इति शेषः । तेजसि आत्मनि ॥ १।३६।१४ ॥

यदिदमिति । धारयिष्यति धारयितुं शक्नुयात् ॥ १।३६।१५१६ ॥

एवमिति । येन तेजसा पृथिवी व्याप्ता तत् प्रमुमोच ॥ १।३६।१७ ॥

तत इति । प्रविश सङ्गृहाण ॥ १।३६।१८ ॥

तदिति । पुनर्व्याप्तं पुनः पुनः सङ्गृहीतम् ॥ १।३६।१९ ॥

क्रियमाणामपि पूजामुमा देवी नाङ्गीकरोति स्म, प्रत्युत क्रुद्धैवाभूदित्याह अथेति ॥ १।३६।२० ॥

किमवददित्याह अशपदिति । शापरूपं वचो ऽब्रवीदित्यर्थः ॥ १।३६।२१ ॥

मन्युकारणमाह यस्मादिति । शापस्वरूपमाह अपत्यमित्यादि ॥ १।३६।२२ ॥

अद्येति । अप्रजाः प्रजोत्पादनशक्तिरहिताः ॥ १।३६।२३२४ ॥

तानिति । उपचक्राम पादन्यासं कृतवान् ॥ १।३६।२५ ॥

स गत्वेति । उत्तरे गिरौ हिमवति । तस्य पार्श्वे पार्श्वस्थे हिमवत्प्रभवे श्रृङ्गे तप आतिष्ठदित्यन्वयः ॥ १।३६।२६ ॥

शैलपुत्र्या इति गङ्गाया विशेषणम् । विस्तरः निवेदितः । प्रभवं कुमारोत्पत्तिं च ॥ १।३६।२७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां षट्त्रिंशः सर्गः ॥ ३६ ॥