उपास्येति । रात्रिशेषम् उपास्य निद्रामुपगम्य । अत्यन्तसंयोगे द्वितीया ॥ १।३५।१ ॥
सुप्रभातेति । गमनाय गमनं कर्तुम् ॥ १।३५।२३ ॥
अयमिति । अगाधः गम्भीरः । कतरेण पथा सन्तरिष्यामहे इत्यर्थः ॥ १।३५।४ ॥
उद्दिष्टः गन्तव्यत्वेन निश्चितः ॥ १।३५।५९ ॥
अमृतवत् अमृततुल्यं पञ्चयज्ञाद्यवशिष्टमन्नम् । यद्वा अमृतवत् तत्सदृशं गङ्गाजलं हविश्च प्रागुक्तं प्राश्येत्यर्थः ॥ १।३५।१०१३ ॥
वृद्धिं त्रैलोक्यव्याप्तिरूपाम् ॥ १।३५।१४ ॥
धातूनां स्वर्णादीनाम् ॥ १।३५।१५१७ ॥
अथेति । देवतार्थचिकीर्षया देवतार्थश्च कुमारजननादिः । त्रिपथगां स्वर्गभूपातालमार्गगाम् ॥ १।३५।१८ ॥
ददाविति । धर्मेण स्वसुकृतेन । तनयां तनयात्वं गताम् । स्वच्छन्देन स्वेच्छया कृतः पन्थाः स्वच्छन्दपथः तेन गच्छन्तीम्, अनर्गलामिति यावत् ॥ १।३५।१९ ॥
त्रैलोक्यहितकारिणः, देवा इति शेषः । गच्छन् अगच्छन् ॥ १।३५।२०२३ ॥
एतदित्यादि । त्रिपथगा नदी येन प्रकारेण खं गतिं गता, आकाशमार्गं गतेत्यर्थः ॥ १।३५।२४ ॥
सेति । विपापा विधूतलोककल्मषा, किमु वक्तव्यं स्वयमिति ॥ १।३५।२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पञ्चत्रिंशः सर्गः ॥ ३५ ॥