कृतोद्वाह इति । अपुत्रः कुशनाभः ॥ १।३४।१२ ॥
पुत्रेति । तेन गाधिना ॥ १।३४।३६ ॥
पूर्वजेति । ऋचीके ऋचीकाय । प्रतिपादिता दत्ता ॥ १।३४।७ ॥
सशरीरेति । अनुवर्तिनी शूश्रूषमाणा । न केवलं सशरीरतः स्वर्गगमनम्, अपितु अस्या महानदीत्वमपि जातमित्याह कौशिकीत्यादिना ॥ १।३४।८ ॥
दिव्येति । दिव्या अनन्यसाधरणा । हितकामार्थं हितमामुष्मिकम्, कामः ऐहिकम्, तदर्थम्, यतः सा हिमवन्तमुपाश्रिता अत इत्यर्थः ॥ १।३४।९१० ॥
इतश्च तत्र वास इत्याह सा त्विति । सत्ये धर्मे प्रतिष्ठिता तज्जलपानादिना सत्यान्मनो न निवर्तत इति भावः ॥ १।३४।११ ॥
अहमिति । नियमात् अध्वरनियमाद्धेतोः ॥ १।३४।१२ ॥
एषा इति । ऽकुशवंशप्रसूतो ऽस्मिऽ इत्यादिना स्वस्योत्पत्तिः ऽब्रह्मयोनिःऽ इत्यादिमहाप्रबन्धेन स्ववंशोत्पत्तिः ऽएषा वसुमतीऽ इत्यादिना देशस्योत्पत्तिः कीर्तितेत्यर्थः ॥ १।३४।१३ ॥
गतो ऽर्धरात्र इति । अत्र अर्धरात्रशब्देन प्रदोषो लक्ष्यते, अन्यथा ऽशनैर्वियुज्यते सन्ध्याऽ इत्युत्तरत्र तद्वचनं विरुध्येत, कथान्तरश्रवणकौतूहलतदर्थप्रार्थनविरामार्थकालविप्रकर्षं प्रीत्या
प्रकाशयति न पुनः परमार्थेनेति । यथाश्रुतार्थग्रहणे तु शनैर्वियुज्यते सन्ध्येत्यत्र भूतार्थे लट् ॥ १।३४।१४१५ ॥
शनैरित्यादि । नक्षत्रतारागहनं नक्षत्रैर्ग्रहैर्ग्रहनम् अत एव नैत्रैरावृतमिव नभः ज्योतिर्भिः उडुभिः तेषां रश्मिभिर्वा अवभासते । नैशानि निशायां चरन्तीति तथा ॥ १।३४।१६१९ ॥
स्तुतिप्रकारमाह कुशिकानामित्यादि । ब्रह्मोपमाः ब्रह्मर्षितुल्याः ॥ १।३४।२० ॥
हे महायशः विश्वामित्र यस्तपसा ब्रह्मर्षित्वं प्राप्त इति भावः ॥ १।३४।२१२२ ॥
राम इति । निद्रां समुपसेवते भूतार्थे लट् ॥ १।३४।२३ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां चतुस्त्रिंशः सर्गः ॥ ३४ ॥