०३३ कुशनाभकन्योद्वाहः

तस्येति । चरणौ स्पृष्ट्वा नमस्कृत्य ॥ १।३३।१ ॥

वायुरिति । इच्छति ऐच्छत् । प्रत्यवेक्षते प्रत्यवैक्षत ॥ १।३३।२ ॥

पितृमत्य इति । स्वच्छन्दे स्वातन्त्र्ये यदि नः अस्मान् दास्यते दास्यति, तर्हि वयं त्वदीयाः ॥ १।३३।३ ॥

तेनेति । पापानुबन्धेन पापानुवर्तनहेतुना वचनं न प्रतीच्छता अनङ्गीकुर्वता वायुना निहताः ॥ १।३३।४५ ॥

क्षान्तमित्यादि । क्षमावतां कर्तव्यं महत् क्षान्तं धैर्यं भवतीभिः कृतम् ॥ १।३३।६७ ॥

दुष्करमित्यादि । यत् क्षान्तं तत् दुष्करम् । यादृशी वः क्षमा धृतिः सा दुष्करा त्रिदशेषु विशेषतो दुष्करा । कुतः? तेषामाभिरूप्यादिकमनीयगुणबाहुल्यात् । सा भवतीभिः कृता । यद्वा परकृतापराधसहिष्णुत्वं क्षमा । अपराधसद्भावेपि शापाप्रदानरूपं चित्तसंयमनं क्षान्तं भवतीभिः कृतम् । स्थानाच्च्यावयितुमित्यादिना तासां शापदानसामर्थ्यं व्यक्तम् । अयं भावः दुष्करा क्षमा सर्वत्र कर्तव्या, त्रिदशेषु विषये विशेषतः कर्तव्या । सा भवतीभिः कृता ॥ १।३३।८९ ॥

विसृज्येति । प्रदानं कन्याप्रदानम् । चिन्ताप्रकारमाह देशेति । प्रदानस्य प्रदेयस्य कन्याशतस्य सदृशे वरे प्रतिपादनं कर्तव्यमिति ॥ १।३३।१० ॥

एतस्मिन्निति । ब्राह्म वैदिकम् तपः उपागमत् कृतवान् । ऊर्ध्वरेताः ब्रह्मचारी ॥ १।३३।१११२ ॥

सेति । काले कियति काले ॥ १।३३।१३ ॥

स चेति । कालयोगेन प्रसादकालयोगेन । किं करोमि किं करवाणि ॥ १।३३।१४१५ ॥

लक्ष्म्येति । ब्राह्म्या लक्ष्म्या समुदितः ब्रह्मभूतो महातपाः त्वम् अतो ब्राह्मेण ब्राह्मशक्तियोगेन युक्तं पुत्रमिच्छामि ॥ १।३३।१६ ॥

अपतिरित्यादि । पूर्वं चापतिरस्मि, इदानीं न कस्यचिद्भार्यास्मि । नैष्ठिकब्रह्मचारिणीत्यर्थः । अतो ब्राह्मेण धर्मेण उपगतायाः शरणं गतायाः मे सुतं दातुमर्हसि ॥ १।३३।१७१८ ॥

स राजा गन्धर्व्याः सोमदायाः क्षत्रियात्वात् । काम्पिल्याम् कम्पिलेन निर्वृत्ताम् ॥ १।३३।१९ ॥

स इति । दातुं बुद्धिं निश्चयं कृतवान् ॥ १।३३।२०२२ ॥

स्पृष्टेति । विकुब्जाः विगतकुब्जभावाः, अस्य ब्रह्मतेजस्सम्पत्तिरेवात्र कारणं विज्ञेयम् । वायुना भग्नाः पूर्वमिति शेषः (वायुना भग्नाः इति पाठः) ॥ १।३३।२३२५ ॥

सोमदेति । सदृशक्रियाम् सदृशविवाहम् । सदृशक्रियामित्यस्य प्रत्यनन्दतेति परेण सम्बन्धः ॥ १।३३।२६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रयस्त्रिंशः सर्गः ॥ ३३ ॥