ब्रह्मयोनिरिति । आक्लिष्टव्रतः अभङ्गव्रतः ॥ १।३२।१ ॥
स इति । युक्तायाम् अनुरूपायाम् ॥ १।३२।२३ ॥
ऋषेरिति । निवेशं सन्निवेशम् ॥ १।३२।४ ॥
महोदयं महोदयनामकम् ॥ १।३२।५८ ॥
सैषेति । पूर्वाभिचरिता पूर्ववाहिनी ॥ १।३२।९ ॥
कुशनाभ इति । घृताच्यामप्सरसि ॥ १।३२।१०११ ॥
गायन्त्य इति । आमोदं सन्तोषम् ॥ १।३२।१२ ॥
अथेति । उद्यानभूमिमागम्य, विरेजुरिति शेषः ॥ १।३२।१३१८ ॥
कुशनाभेति । स्थानात् अधिकारात् । देवमिन्द्रम् ॥ १।३२।१९ ॥
माभूदित्यादि । सः पिता ते कालो मृत्युः माभूत् । तेन तं नावमन्यस्व, धर्मेण पितृप्रदानरूपेण वरं पतिमुपास्महे प्रतीक्षामहे । प्रभुः वायुः ॥ १।३२।२०२५ ॥
एवमिति । एवं विनिश्वस्य व्यथित्वा समाधिं सन्दधे, समाधिर्व्यथितस्य मनसः समाधानम् ॥ १।३२।२६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वात्रिशः सर्गः ॥ ३२ ॥