०३१ मिथिला-प्रस्थानम्

अथति । तत्र यज्ञशालायाम् ॥ १।३१।१ ॥

अभिजग्मतुः अभिवादनार्थमिति शेषः ॥ १।३१।२ ॥

मुनिश्रेष्ठम् विश्वामित्रम् ॥ १।३१।३४ ॥

तयोरिति ताभ्यामित्यर्थे ॥ १।३१।५ ॥

मैथिलस्येति । धर्मिष्ठः अतिशयितधर्मवान् । “चिण्मतोर्लुक्” इति मतुब्लोपः । तत्र तं देशम् ॥ १।३१।६ ॥

त्वं चैवेति । तत्र यज्ञे । तत् प्रसिद्धम् । चकारो ऽनुक्तस्त्रीरत्नसमुच्चयपरः ॥ १।३१।७ ॥

तद्धीति । सदसि दैवतैर्दत्तम् ॥ १।३१।८१० ॥

तत्र मिथिलायाम् । चकारेण जानकीस्वीकारसमुच्चयः ॥ १।३१।११ ॥

तद्धीति । सुनाभं शोभनमध्यम् । सर्वदैवतैः सर्वदैवतेभ्यः ॥ १।३१।१२ ॥

आयागभूतं धनुः मखेषु प्राधान्येनार्चितं धनुरायागः तद्भूतम् ॥ १।३१।१३१४ ॥

स्वस्तीति । हिमवन्तं गमिष्यामीत्यन्वयः । हिमवतः स्वाश्रमत्वादिति भावः ॥ १।३१।१५ ॥

प्रदक्षिणमिति । उपचक्रमे गन्तुमिति शेषः ॥ १।३१।१६ ॥

अनुसारिणाम् उक्तदिगनुसारिणाम्, पश्चाद्गामिनां वा । शकटीशतमात्रं शतपरिच्छिन्नशकट्यारोपिताग्निहोत्रसम्भारादिमत् । ब्रह्मादीनां यूथमन्वगात् ॥ १।३१।१७२४ ॥

चोदित इति । निखिलं वक्तव्यं सर्वम् ॥ १।३१।२५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायम् एकत्रिंशः सर्गः ॥ ३१ ॥