०३० यज्ञरक्षणम्

अथेति । कौशिकं वचो ऽब्रूतामित्यन्वयः ॥ १।३०।१ ॥

भगवन्निति । संरक्षणीयौ निवारणीयौ । तत्क्षणं स कालः नातिवर्तेत अज्ञानतो नातिक्रामेत ॥ १।३०।२ ॥

एवमिति । प्रशशंसुः प्रोचुः । एवं विश्वामित्रे पृष्टे दीक्षया तस्य मौनित्वादृषय ऊचुरित्यर्थः ॥ १।३०।३ ॥

अद्येति । अद्यापि दीक्षतत्वात् मौन्येव, अतःपरमपि षड्रात्रपर्यन्तं मौनित्वं प्राप्स्यतीत्यर्थः ॥ १।३०।४५ ॥

उपासाञ्चक्रतुः ऊषतुः । परस्मैपदमार्षम् । यत्तौ सन्नद्धौ ॥ १।३०।६ ॥

अथेति । तस्मिन्नहनि प्रधानकर्मसम्बन्धिनि ॥ १।३०।७ ॥

रामस्येत्यादि । अत्र वेदिप्रज्वलनं राक्षसागमनसूचक उत्पातः । उपाध्यायो विश्वामित्रः पुरोहिता ऋत्विजः । एतच्च उत्तरश्लोकेन विस्त्रियते ॥ १।३०।८९ ॥

मन्त्रवदिति । समुत्पन्ने उत्पाते रामो रक्षतीति विश्वासात् सम्प्रवर्तत इति सम्बन्धः ॥ १।३०।१० ॥

आवार्येति । मेघो मेघध्वनिः । कार्ये कारणोपचारः ॥ १।३०।११ ॥

मारीच इति । अवासृजन् ववर्षुः ॥ १।३०।१२ ॥

सेति । मण्डिता चिह्निता । अभिद्रुतः अभितः शालां प्रधावन् । तत्रादृष्ट्वा दिवि तानपश्यत् ॥

१।३०।१३ ॥

आपतन्तौ स्वसम्मुखमागच्छन्तौ ॥ १।३०।१४१६ ॥

गायत्र्याः स इति द्वितीयाक्षरम् । स तेनेत्यस्य श्लोकस्यादिमाक्षरेण स इत्यनेन सङ्गृह्णाति । सम्प्लवे पूरे ॥ १।३०।१७ ॥

विचेतनमिति । दृश्य दृष्ट्वा । विचेतनं चैतन्यरहितम् । अत एव विघूर्णमानम्, शीतेषुमिति मानवास्त्रनामान्तरम् ॥ १।३०।१८२२ ॥

पश्येति । शीतेषुं मानवास्त्रम्, न व्ययुज्यत, मारीच इति शेषः ॥ अथेति । निरीतिकाः निरुपद्रवाः ॥ १।३०।२३ ॥

कृतार्थ इति । त्वया हेतुना कृतार्थोस्मीति चान्वयः । सत्यं कृतम् अन्वर्थनामकं कृतमित्यर्थः ॥ १।३०।२४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां त्रिंशः सर्गः ॥ ३० ॥