०२९ सिद्धाश्रमगमनम्

अथ तस्येत्यादि । तस्य रामस्य परिपृच्छतो वचनं श्रुत्वेति शेषः । व्याख्यातुम् उत्तरमिति शेषः ॥ १।२९।१ ॥

इहेति । इह वने तपश्चरणाय तपश्चरणार्थम् इह प्रदेशे उवासेति इहशब्दद्वयस्य निर्वाहः ॥ १।२९।२३ ॥

एतस्मिन्निति । समरुद्गणान् आवहप्रवहादिवायुगणसहितान् । कारयामास कृतवान् ॥ १।२९।४ ॥

बलेरिति । यजमानस्य यज्ञं कुर्वाणस्य । अग्निपुरोगमाः पुरोगमेनाग्निना सहिताः ॥ १।२९।५ ॥

बलिरिति । स्वकार्यं देवकार्यम् ॥ १।२९।६ ॥

ये चेत्यादि । इतस्ततः यत्र यागे यच्च यद्वस्तु यथावत् याचितारः याचिष्यमाणाः, एवमभिवर्तन्ते तेभ्यस्तत्सर्वं तव यथावच्च प्रयच्छतीत्यर्थः ॥ १।२९।७८ ॥

एतस्मिन्निति । अदित्या x सहितो व्रतं समाप्य देव्या तयैव सहितस्तुष्टावेत्यन्वयः ॥ १।२९।९१० ॥

तप इति । तपोमयं तपःप्रचुरम् । तप आत्मकं तपस्स्वभावम् ॥ १।२९।११ ॥

शरीर इति । पश्यामि साक्षात्करोमि । अनिर्देश्यः इदं त्वया निर्देष्टुमशक्य इत्यर्थः ॥

१।२९।१२ ॥

वरम् अभीष्टम् । वरार्हः दिव्यवर्षसहस्रतपसा वरदानयोग्यः ॥ १।२९।१३ ॥

तदिति । मारीचः मरीचिपुत्रः ॥ १।२९।१४ ॥

अदित्या इति । अनुयाचत इत्यस्य इतरयोरपि लिङ्गवचनव्यत्ययेन सम्बन्धः ॥ १।२९।१५ ॥

याच्यमानमभीष्टं निरूपयति पुत्रत्वमित्यादि । साहाय्यं बलिच्छलनात्मकम् ॥ १।२९।१६ ॥

अयमिति । सिद्धे कर्मणीति पूर्वेणान्वयः । इतः अस्मिन् कार्ये । उत्तिष्ठ यतस्व ॥ १।२९।१७१८ ॥

आक्रम्य त्रिभिः पदैः सर्वान् लोकान् व्याप्य । नियम्य बद्ध्वा । त्रैलोक्यमित्यादि । यश्चक्रे तेन वामनेन तस्य तस्मिन् वामने भक्त्या उपभुज्यते ॥ १।२९।१९२१ ॥

द्वितीयप्रश्नस्योत्तरमाह एतमिति ॥ १।२९।२२ ॥

अनुत्तमं सर्वोत्कृष्टं । तदेतदाश्रमपदं यथा मम स्वभूतं तथा तवापि, विष्ण्ववतारत्वादिति गूढो ऽभिप्रायः ॥ १।२९।२३२७ ॥

अद्यैवेति । दीक्षां प्रविश स्वीकुरु । सिद्धः अन्वर्थः ॥ १।२९।२८२९ ॥

कुमाराविति । कुमाराविव स्कन्दविशाखाविव ॥ १।२९।३०३१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् एकोनत्रिंशः सर्गः ॥ २९ ॥