प्रतिगृह्येति । गच्छन् गमिष्यन् ॥ १।२८।१ ॥
गृहीतास्त्र इति । उपसंहारापरिज्ञाने पुनः प्रयोगानर्हतया अप्राप्तप्रायत्वात्तज्ज्ञानेच्छा । संहारो नाम प्रयुक्तस्यास्त्रस्य मन्त्रविशेषेण पुनः स्वाधीनीकरणम् ॥ १।२८।२ ॥
एवमिति । संहारमुद्दिश्य वाक्यं व्याजहार । धृतिमान् धारणशक्तिमान् ॥ १।२८।३ ॥
सत्यवन्तमित्यादि । सार्चिर्मालीत्यादि प्रथमान्तेषु यच्छब्दाध्याहारेण तं प्रतीच्छेति योजनीयम् । मम मत्तः ॥ १।२८।४१० ॥
बाढमिति । बाढमित्यङ्गीकारे । प्रहृष्टेनान्तरात्मना, प्रत्यग्रहीदिति शेषः ॥ १।२८।११ ॥
दिव्येत्यादि श्लोकद्वयमेकं वाक्यम् । प्रह्वाञ्जलिपुटाः केचिदित्यनुषज्यते ॥ १।२८।१२१३ ॥
इम इति । शाधि आज्ञापय ॥ १।२८।१४ ॥
गम्यताम्, इदानीमिति शेषः ॥ १।२८।१५१६ ॥
स च तानिति । तान् उपसंहारमन्त्रान् ज्ञात्वा ॥ १।२८।१७ ॥
मेघसङ्काशं कार्ष्ण्यान्नेबिड्याच्च । वृक्षषण्डं वृक्षसमूहम्, किं वनसम्बन्धि, उत आश्रमसम्बन्धीति प्रश्नः । कौतूहलम्, श्रोतुमिति शेषः ॥ १।२८।१८२० ॥
अनयेत्यादि । अनया देशस्य सुखवत्तया इदमाश्रमपदमित्यवगच्छामि । कस्येदं सर्वं शंसेत्यन्वयः ॥ १।२८।२१ ॥
सम्प्राप्ता इत्यादि । यत्राश्रमपदे तव यज्ञस्य विघ्नाय राक्षसाः सम्प्राप्ता भवन्ति, सा च याज्ञिकी क्रिया यत्र रक्षितव्या राक्षसाश्च वध्या यत्र तस्याश्रमस्य को देशः, किं स्थानं सर्वं मे शंसेति पूर्वेणान्वयः ॥ १।२८।२२२४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायाम् अष्टाविंशः सर्गः ॥ २८ ॥