अथ तामिति ॥ १।२७।१ ॥
परितुष्टो ऽस्मीति । सर्वशः साकल्येन ॥ १।२७।२६ ॥
गदे इति । मोदकी शिखरी च प्रदीप्ते द्वे गदे विद्येते ते उभे प्रयच्छामीति सम्बन्धः ॥ १।२७।७९ ॥
आग्नेयमिति । दयितम्, अग्नेरिति शेषः । शिखरं नाम नामतः शिखरमिति प्रसिद्धम् । प्रथनं मुख्यम् ॥ १।२७।१०११ ॥
कङ्कालादीनि असुरधार्यास्त्राणि ॥ १।२७।१२ ॥
वैद्याधरमिति । वेद्याधरं विद्याधरदेवताकम् । नन्दनं नाम असिरत्नं महास्त्रं ददामीति सम्बन्धः ॥ १।२७।१३ ॥
प्रशमनं रिपूणां क्रोधशामकम् ॥ १।२७।१४ ॥
मदनं शत्रूणां मदजनकम् ॥ १।२७।१५ ॥
पौशाचमिति । प्रतीच्छ प्रतिगृह्णीष्व ॥ १।२७।१६२१ ॥
सर्वेति । सर्वसङ्ग्रहणं कार्त्स्न्येन सङ्ग्रहणम् ॥ १।२७।२२ ॥
जपत इति । उपतस्थुः सिषेविरे ॥ १।२७।२३ ॥
सर्वे अस्त्रदेवाः । मुदिताः स्वाधिदैवतरामसम्बन्धेन तुष्टाः ॥ १।२७।२४ ॥
प्रतिगृह्येति । समालभ्य संस्पृश्य । मानसाः मनोनुसारिणः ॥ १।२७।२५२६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तविंशः सर्गः ॥ २७ ॥